०१

01 श्रुतिलक्षणम् प्रायश्चित्तं विध्यपराधे ...{Loading}...

श्रुतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयते १

02 एकस्मिन्दोषे श्रूयमाणानि प्रायश्चित्तानि ...{Loading}...

एकस्मिन्दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्नर्थान्तरत्वात् २

03 जपो होम इज्या ...{Loading}...

जपो होम इज्या च ३

04 दोषनिर्घातार्थानि भवन्ति ...{Loading}...

दोषनिर्घातार्थानि भवन्ति ४

05 अनन्तरन् दोषात्कर्तव्यानि ...{Loading}...

अनन्तरं दोषात्कर्तव्यानि ५

06 निर्हृते दोषे पुनः ...{Loading}...

निर्हृते दोषे पुनः कृत्स्नं कर्म ६

07 तस्य नावचनात्पुनःप्रयोगः ...{Loading}...

तस्य नावचनात्पुनःप्रयोगः ७

08 तुभ्यन् ता अङ्गिरस्तमेत्यन्वाहिताग्निः ...{Loading}...

तुभ्यं ता अङ्गिरस्तमेत्यन्वाहिताग्निः प्रयास्यञ्जुहुयात् ८

09 पृथगरणीष्वग्नीन्समारोप्य प्रयाति ...{Loading}...

पृथगरणीष्वग्नीन्समारोप्य प्रयाति ९

10 यत्र वसेत्तदेतामिष्टिं संस्थापयेत् ...{Loading}...

यत्र वसेत्तदेतामिष्टिं संस्थापयेत् १०

11 यद्यन्वाहिताग्नेराहवनीयोऽनुगच्छेदन्वग्निरुषसामग्रमख्यदित्यन्यम् प्रणीय भूरित्युपस्थाय ...{Loading}...

यद्यन्वाहिताग्नेराहवनीयोऽनुगच्छेदन्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीय भूरित्युपस्थाय यो अग्निं देववीतये हविष्माँ आविवासति । तस्मै पावक मृडय स्वाहेति पूर्णं स्रुवं सर्वप्रायश्चित्तं हुत्वेदं विष्णुर्विचक्रम इत्याहुतिं जुहुयात् ११

12 जपेदित्येके ...{Loading}...

जपेदित्येके १२

13 मनसा व्रतोपायनीयं यजुर्जपेत् ...{Loading}...

मनसा व्रतोपायनीयं यजुर्जपेत् १३

14 यः कश्चनानुगच्छेदेतदेव प्रणयनवर्जमावर्तेत ...{Loading}...

यः कश्चनानुगच्छेदेतदेव प्रणयनवर्जमावर्तेत १४

15 मन्थेद्गार्हपत्यम् ...{Loading}...

मन्थेद्गार्हपत्यम् १५

16 याप्रकृतिर्दक्षिणाग्नेः ...{Loading}...

याप्रकृतिर्दक्षिणाग्नेः १६

17 यद्याहिताग्नेरग्निरपक्षायेदा शम्यापरासात्परि वाजपतिः ...{Loading}...

यद्याहिताग्नेरग्निरपक्षायेदा शम्यापरासात्परि वाजपतिः कविरग्निरिति त्रिः प्रदक्षिणं परिक्रम्य तं सम्भरेदिदं त एकं पर उत एकं तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तनुवै चारुरेधि प्रिये देवानां परमे जनित्र इति १७

18 यदि परस्तरामपक्षायेदनुप्रयायावस्येत् ...{Loading}...

यदि परस्तरामपक्षायेदनुप्रयायावस्येत् १८

19 तदग्नये पथिकृते पुरोडाशमष्टाकपालन् ...{Loading}...

तदग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् १९

20 पथोऽन्तिकाद्बर्हिराहरेत् ...{Loading}...

पथोऽन्तिकाद्बर्हिराहरेत् २०

21 अनड्वान्दक्षिणा सिद्धमिष्टिः सन्तिष्टते ...{Loading}...

अनड्वान्दक्षिणा । सिद्धमिष्टिः सन्तिष्टते २१

22 ततः श्वोभूते गृहेषु ...{Loading}...

ततः श्वोभूते गृहेषु प्रत्यवस्यति २२

23 यस्य हविषे वत्सा ...{Loading}...

यस्य हविषे वत्सा अपाकृता धयेयुस्तत्स्थाने वायव्यां यवागूं निर्वपेत् २३

24 अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ...{Loading}...

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् २४

25 यस्य सायन् दुग्धं ...{Loading}...

यस्य सायं दुग्धं हविरार्तिमार्छतीन्द्राय व्रीहीन्निरुप्योपवसेत् २५

26 यत्प्रातः स्यात्तच्छृतङ् कुर्यात् ...{Loading}...

यत्प्रातः स्यात्तच्छृतं कुर्यात् २६

27 अथेतर ऐन्द्रः पुरोडाशः ...{Loading}...

अथेतर ऐन्द्रः पुरोडाशः स्यात् २७

28 तस्य प्रातर्दोहेन समवदाय ...{Loading}...

तस्य प्रातर्दोहेन समवदाय प्रचरेत् २८

29 एतदेव प्रातर्दोह आर्तिगते ...{Loading}...

एतदेव प्रातर्दोह आर्तिगते प्रायश्चित्तम् २९

30 सायन् दोहेनास्य समवदाय ...{Loading}...

सायं दोहेनास्य समवदाय प्रचरेत् ३०

31 यस्योभौ दोहावार्तिमार्छेयातामाग्नेयमष्टाकपालन् निर्वपेदैन्द्रम् ...{Loading}...

यस्योभौ दोहावार्तिमार्छेयातामाग्नेयमष्टाकपालं निर्वपेदैन्द्रं पञ्चशरावमोदनम् ३१

32 अग्निम् पुरोडाशेन यजेत ...{Loading}...

अग्निं पुरोडाशेन यजेत । इन्द्रं पञ्चशरावेण ३२

33 पञ्चशरावेण वोभे देवते ...{Loading}...

पञ्चशरावेण वोभे देवते यजेत ३३

34 अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ...{Loading}...

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ३४

इति प्रथमा कण्डिका


  1. A sacrificer who has omitted either of the new and full moon offerings should perform either an offering to Agni Pathikr̥t (15 II.2.2.1) or the one for Vaiśvānara (TS II.2.5.4.). The purpose of the offering to Agni Pathikr̥t is to return to the correct path and that of the one for Vaiśvārara is to obtain heaven. Since the purpose is different both these offerings should not be performed together but only one of them be performed. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.3.14.g. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.2.13.e. For this Sūtra see TS III.7.1.2-3. ↩︎