२२

01 पञ्चदश्यां वैश्वदेवेन यजते ...{Loading}...

पञ्चदश्यां वैश्वदेवेन यजते १

02 एतेनैव पशुकामो यजेत ...{Loading}...

एतेनैव पशुकामो यजेत यस्मिन्नस्यर्तौ भूयिष्ठं गोषु पयः स्यात् २

03 एतेनैव प्रजाकामः पशुकामो ...{Loading}...

एतेनैव प्रजाकामः पशुकामो वा यजेत ३

04 अथैकेषाम् वैश्वदेवेनेतरेषाम् पर्वणां ...{Loading}...

अथैकेषाम् । वैश्वदेवेनेतरेषां पर्वणां स्थाने पशुकामो यजेत यावत्सहस्रं पशून्प्राप्नुयात् । अथेतरैः स्वकालैर्यजेत ४

05 शुनासीरीयेण ग्रामकामो वर्ष्य ...{Loading}...

शुनासीरीयेण ग्रामकामो वर्ष्य उदके यजेत ५

06 वर्ष्यमुदकमन्ववसाय तत उदकार्थान्कुरुते ...{Loading}...

वर्ष्यमुदकमन्ववसाय तत उदकार्थान्कुरुते ६

07 एतेनैव प्रजाकामः पशुकामः ...{Loading}...

एतेनैव प्रजाकामः पशुकामः पुष्टिकामो ब्रह्मवर्चसकामोऽन्नाद्यकामो वा यजेत ७

08 पर्वभिश्चातुर्मास्येषु मासान्सञ्चष्टे ...{Loading}...

पर्वभिश्चातुर्मास्येषु मासान्सञ्चष्टे ८

09 पञ्चसांवत्सरिकाणि व्याख्यास्यामः ...{Loading}...

पञ्चसांवत्सरिकाणि व्याख्यास्यामः ९

10 त्रीनृतून्संवत्सरानिष्ट्वा मासन् न ...{Loading}...

त्रीनृतून्संवत्सरानिष्ट्वा मासं न यजते । द्वौ पराविष्ट्वा विरमति १०

11 चैत्र्यान् तूपक्रम्य द्वाविष्ट्वा ...{Loading}...

चैत्र्यां तूपक्रम्य द्वाविष्ट्वा मासमनिष्ट्वा त्रीन्परानिष्ट्वा विरमति ११

12 अथ पञ्चदशवार्षिकाणि ...{Loading}...

अथ पञ्चदशवार्षिकाणि १२

13 एतान्येव द्विः ...{Loading}...

एतान्येव द्विः १३

14 त्रिरपरिमितं वाभ्यस्येत् ...{Loading}...

त्रिरपरिमितं वाभ्यस्येत् १४

15 विज्ञायते च स ...{Loading}...

विज्ञायते च स त्रिषुत्रिषु संवत्सरेषु मासं न यजत इत्येतद्वचनोऽभ्यासः १५

16 पञ्चसांवत्सरिकेषु वैश्वानरपार्जन्या पञ्चहोता ...{Loading}...

पञ्चसांवत्सरिकेषु वैश्वानरपार्जन्या पञ्चहोता च नाभ्यावर्तेत १६

17 एकोपक्रमत्वात् ...{Loading}...

एकोपक्रमत्वात् १७

18 यथान्वारम्भणीया यथान्वारम्भणीया ...{Loading}...

यथान्वारम्भणीया यथान्वारम्भणीया १८

इति द्वाविंशी कण्डिका इति षष्ठः पटलः इत्यष्टमः प्रश्नः


  1. Cp. ŚB II.6.3.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎