२१

01 अनुवत्सरीणां स्वस्तिमाशास्ते दिव्यन् ...{Loading}...

अनुवत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते । एवं यजमानो जपति । आशास इति मन्त्रं सन्नमति । सिद्धमिष्टिः सन्तिष्ठते । सन्तिष्ठन्ते चातुर्मास्यानि । अत्र पौर्णमास्येष्ट्वोन्दनादि पूर्ववन्निवर्तनम् । सर्वं वा वापयेत् । मन्त्रादिर्विक्रियते । एकं मासमुदसृजत्परमेष्ठी प्रजाभ्यः । तेनाभ्यो मह आवहदमृतं मर्त्याभ्यः । प्रजामनु प्रजायसे तदु ते मर्त्यामृतम् । येन मासा अर्धमासा ऋतयः परिवत्सराः । येन ते ते प्रजापत ईजानस्य न्यवर्तयन् । तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे । अग्निस्तिग्मेनेति समानम् १

02 चातुर्मास्यैरिष्ट्वा सोमेन पशुना ...{Loading}...

चातुर्मास्यैरिष्ट्वा सोमेन पशुना वा यजते २

03 फाल्गुन्या उद्दृष्टे सोमाय ...{Loading}...

फाल्गुन्या उद्दृष्टे सोमाय दीक्षते ३

04 तन् ततो नानीजानमपरा ...{Loading}...

तं ततो नानीजानमपरा फाल्गुनी पर्यवेयात् ४

05 इति वै खलूत्सृजमानस्य ...{Loading}...

इति वै खलूत्सृजमानस्य ५

06 अथ पुनरालभमानस्य फाल्गुन्याश्चतुर्दश्यां ...{Loading}...

अथ पुनरालभमानस्य फाल्गुन्याश्चतुर्दश्यां शुनासीरीयेणेष्ट्वा ६

इत्येकविंशी कण्डिका


  1. Cp. VIII.3.4f., VIII.7.8, VIII. 12.5. ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. VIII.8.19f. ↩︎

  3. See TB 1.5.5.6-7; cp. Āpśs VIII.4.2. ↩︎

  4. See VIII.4.2. ↩︎