२०

01 ततो द्व्यहे त्र्यहे ...{Loading}...

ततो द्व्यहे त्र्यहे चतुरहेऽर्धमासे मासि चतुर्षु वा मासेषु शुनासीरीयेण यजते १

02 तस्य वैश्वदेववत्कल्पः ...{Loading}...

तस्य वैश्वदेववत्कल्पः २

03 निर्वपणकाल आग्नेयमष्टाकपालमिति दशोत्तराणि ...{Loading}...

निर्वपणकाल आग्नेयमष्टाकपालमिति दशोत्तराणि हवींषि निर्वपति ३

04 वायव्यस्य पयसः प्रातर्दोहवत्कल्पः ...{Loading}...

वायव्यस्य पयसः प्रातर्दोहवत्कल्पः ४

05 अथैकेषाम् पञ्च सञ्चराणि ...{Loading}...

अथैकेषाम् । पञ्च सञ्चराणि निरुप्य वायव्या यवागूः प्रतिधुग्वेन्द्राय शुनासीराय पुरोडाशो द्वादशकपालः । इन्द्राय शुनासीराय स्रुचा जुहुत नो हविः । जुषतां प्रति मेधिरः । प्र हव्यानि घृतवन्त्यस्मै हर्यश्वाय भरता स जोषाः । इन्द्रर्तुभिर्ब्रह्मणा वावृधानः शुनासीरी हविरिदं जुषस्वेति शुनासीरीयस्य याज्यानुवाक्ये । सौर्य एककपाल इति ५

06 नव प्रयाजानूयाजाः ...{Loading}...

नव प्रयाजानूयाजाः ६

07 पञ्चप्रयाजन् त्र्यनूयाजमित्येके ...{Loading}...

पञ्चप्रयाजं त्र्यनूयाजमित्येके ७

08 संसर्पोऽस्यंहस्पत्याय त्वेति मासनाम्नैककपालमभिजुहोति ...{Loading}...

संसर्पोऽस्यंहस्पत्याय त्वेति मासनाम्नैककपालमभिजुहोति ८

09 द्वादशगवं सीरन् दक्षिणा ...{Loading}...

द्वादशगवं सीरं दक्षिणा ९

10 षड्योगं वा ...{Loading}...

षड्योगं वा १०

11 उष्टारावित्येकेषाम् ...{Loading}...

उष्टारावित्येकेषाम् ११

12 उष्टारं वा ...{Loading}...

उष्टारं वा १२

13 अश्वं श्वेतमेककपालस्य गां ...{Loading}...

अश्वं श्वेतमेककपालस्य गां वा श्वेतम् १३

इति विंशी कण्डिका


  1. See I.17.10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See VII.5.28. ↩︎ ↩︎ ↩︎

  3. In addition to the five regularly recurring oblations (for which see VIII.2.2) there should be the following ones:
    i. a sacrificial bread on twelve potsherds for Indra-Agni,
    ii. a rice-pap for the Viśvedevas,
    iii. a sacrificial bread on twelve potsherds for Indra Śunāsīra,
    iv. milk for Vāyu,
    V. a sacrificial bread on one potsherd for Sūrya. See TB 1.7.1.1. ↩︎