१८

01 एष ते रुद्र ...{Loading}...

एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहेति भेषजं गव इत्येताभ्यां चातुष्पथमग्निं परिषिञ्चति । अवाम्ब रुद्रमदिमहीति यजमानो जपति १

02 त्र्यम्बकं यजामह इति ...{Loading}...

त्र्यम्बकं यजामह इति त्रिः प्रदक्षिणमग्निं परियन्ति २

03 त्र्यम्बकं यजामहे सुगन्धिम् ...{Loading}...

त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेरिति यजमानस्य पतिकामा परीयात् ३

04 ऊर्ध्वान्पुरोडाशानुदस्य प्रतिलभ्य त्र्यम्बकं ...{Loading}...

ऊर्ध्वान्पुरोडाशानुदस्य प्रतिलभ्य त्र्यम्बकं यजामह इति यजमानस्याञ्जलौ समोप्य भग स्थ भगस्य वो लप्सीयेत्यपादायैतेनैव कल्पने त्रिः समावपेयुः ४

05 पतिकामा याश्चैवं समावपेयुस्तथैव ...{Loading}...

पतिकामा याश्चैवं समावपेयुस्तथैव मन्त्रं सन्नमयत्यः ५

06 परीत्यपरीत्य समावपन्तीत्येके ...{Loading}...

परीत्यपरीत्य समावपन्तीत्येके ६

07 तान्मूते समावपति मूतयोर्मूतेषु ...{Loading}...

तान्मूते समावपति मूतयोर्मूतेषु वा ७

08 एष ते रुद्र ...{Loading}...

एष ते रुद्र भाग इति वृक्ष आसजति वृक्षयोर्वृक्षेषु वा ८

09 अपि वा मूतयोः ...{Loading}...

अपि वा मूतयोः समोप्य विवधं कृत्वा शुष्के स्थाणौ वल्मीकवपायां वावधायावततधन्वा पिनाकहस्तः कृत्तिवासोमिति त्रिरवताम्यन्ति ९

10 अपः परिषिच्याप्रतीक्षास्तूष्णीमेत्यैधोऽस्येधिषीमहीत्याहवनीये समिध ...{Loading}...

अपः परिषिच्याप्रतीक्षास्तूष्णीमेत्यैधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते १०

इत्यष्टादशी कण्डिका


  1. See TB I.6.10.4; TS I.8.6.f. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.8.6. g and h. ↩︎ ↩︎ ↩︎

  3. TS I.8.6.h. ↩︎ ↩︎

  4. TS I.4.3.5.1. ↩︎