१७

01 प्रतिपुरुषमेककपालान्निर्वपति यावन्तो यजमानस्यामात्याः …{Loading}…

प्रतिपुरुषमेककपालान्निर्वपति यावन्तो यजमानस्यामात्याः सस्त्रीकास्तावत एकातिरिक्तान् १

02 यावन्तो गृह्याः स्मस्तेभ्यः …{Loading}…

यावन्तो गृह्याः स्मस्तेभ्यः कमकरमिति निरुप्यमाणेषु यजमानो जपति २

03 तूष्णीमुपचरिता भवन्ति …{Loading}…

तूष्णीमुपचरिता भवन्ति ३

04 उत्तरार्धे गार्हपत्यस्याधिश्रयति …{Loading}…

उत्तरार्धे गार्हपत्यस्याधिश्रयति ४

05 तानभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यासाद्य पशूनां …{Loading}…

तानभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यासाद्य पशूनां शर्मासीति मूते समावपति ५

06 मूतयोर्मूतेषु वा …{Loading}…

मूतयोर्मूतेषु वा ६

07 कोशापिधानेन हरन्तीत्येकेषाम् …{Loading}…

कोशापिधानेन हरन्तीत्येकेषाम् ७

08 एक एव रुद्रो …{Loading}…

एक एव रुद्रो न द्वितीयाय तस्थ इति दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति ८

09 उत्तरपूर्वमवान्तरदेशङ् गत्वाखुस्ते रुद्र …{Loading}…

उत्तरपूर्वमवान्तरदेशं गत्वाखुस्ते रुद्र पशुरित्याखूत्कर एकं पुरोडाशमुपवपति ९

10 असौ ते पशुरिति …{Loading}…

असौ ते पशुरिति वा द्वेष्यं मनसा ध्यायन् १०

11 यदि न द्विष्यादाखुस्ते …{Loading}…

यदि न द्विष्यादाखुस्ते पशुरिति ब्रूयात् ११

12 चतुष्पथ एकोल्मुकमुपसमाधाय सम्परिस्तीर्य …{Loading}…

चतुष्पथ एकोल्मुकमुपसमाधाय सम्परिस्तीर्य सर्वेषां पुरोडाशानामुत्तरार्धात्सकृत्सकृदवदाय मध्यमेनान्तमेना वा पलाशपर्णेन जुहोति १२

इति सप्तदशी कण्डिका


  1. Cp. VIII.5.41. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.8.6.c. ↩︎