१६

01 ब्रह्माध्वर्युरग्नीद्यजमानश्च …{Loading}…

ब्रह्माध्वर्युरग्नीद्यजमानश्च १

02 अपि वा न …{Loading}…

अपि वा न यजमानः २

03 समशो वा प्रतिविभज्यावघ्रेण …{Loading}…

समशो वा प्रतिविभज्यावघ्रेण भक्षयित्वा बर्हिषि लेपान्निमृजन्ते ३

04 उदकुम्भमादाय यजमानः शुन्धन्ताम् …{Loading}…

उदकुम्भमादाय यजमानः शुन्धन्तां पितर इति त्रिः प्रसव्यं वेदिं परिषिञ्चन्पर्येति ४

05 निधाय कुम्भमया विष्ठा …{Loading}…

निधाय कुम्भमया विष्ठा जनयन्कर्वराणीति त्रिरपरिषिञ्चन्प्रतिपर्येति ५

06 हविःशेषान्सम्प्लोम्नाय पिण्डान्कृत्वा तिसृषु …{Loading}…

हविःशेषान्सम्प्लोम्नाय पिण्डान्कृत्वा तिसृषु स्रक्तिषु निदधाति पूर्वस्यां दक्षिणस्यामपरस्यामिति । एतत्ते ततासौ ये च त्वामन्वित्येतैः प्रतिमन्त्रम् ६

07 त्रीन्परान्पितॄनन्वाचष्टे षष्ठम् प्रथमे …{Loading}…

त्रीन्परान्पितॄनन्वाचष्टे । षष्ठं प्रथमे पिण्डे । पञ्चमं द्वितीये । चतुर्थं तृतीये ७

08 उत्तरस्यां स्रक्त्यां रिप्ललेपन् …{Loading}…

उत्तरस्यां स्रक्त्यां रिप्ललेपं निमृज्यात्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदञ्चो निष्क्रम्य सुसंदृशं त्वा वयनित्यैन्द्र्यर्चाहवनीयमुपतिष्ठन्त ऐन्द्रीणां वा ८

09 आ तमितोरुपस्थायाक्षन्नमीमदन्त हीति …{Loading}…

आ तमितोरुपस्थायाक्षन्नमीमदन्त हीति पङ्क्त्या गार्हपत्यमुपतिष्ठन्ते ९

10 एतयैव परिश्रितम् प्रविशन्ति …{Loading}…

एतयैव परिश्रितं प्रविशन्ति १०

11 अत्रैके भक्षणपरिषेचने समामनन्ति …{Loading}…

अत्रैके भक्षणपरिषेचने समामनन्ति ११

12 अवघ्रेण सर्वभक्षाः …{Loading}…

अवघ्रेण सर्वभक्षाः १२

13 आञ्जनादि पिण्डपितृयज्ञवदा पङ्क्त्याः …{Loading}…

आञ्जनादि पिण्डपितृयज्ञवदा पङ्क्त्याः १३

14 यदन्तरिक्षमिति पङ्क्त्या पुनरेति …{Loading}…

यदन्तरिक्षमिति पङ्क्त्या पुनरेति १४

15 विस्रस्य प्राचीनावीतानि यज्ञोपवीतानि …{Loading}…

विस्रस्य प्राचीनावीतानि यज्ञोपवीतानि कुर्वते । विपरिक्रामन्त्यृत्विजः । विपरिहरन्ति स्रुचः १५

16 अपकर्षन्ति परिश्रयणानि …{Loading}…

अपकर्षन्ति परिश्रयणानि १६

17 औपभृतञ् जुह्वामानीयापबर्हिषावनूयाजौ यजति …{Loading}…

औपभृतं जुह्वामानीयापबर्हिषावनूयाजौ यजति । देवौ यजेति प्रथमं सम्प्रेष्यति । यजेत्युत्तरम् १७

18 सूक्तवाकम् प्रति निवीतानि …{Loading}…

सूक्तवाकं प्रति निवीतानि कुर्वते १८

19 न पत्नीः संयाजयन्ति …{Loading}…

न पत्नीः संयाजयन्ति १९

20 न समिष्टयजुर्जुहोति …{Loading}…

न समिष्टयजुर्जुहोति २०

21 सर्वमन्यत्क्रियते …{Loading}…

सर्वमन्यत्क्रियते २१

22 सन्तिष्ठते पितृयज्ञः …{Loading}…

सन्तिष्ठते पितृयज्ञः २२

इति षोडशी कण्डिका इति चतुर्थः पटलः


  1. Cf. ŚB II.6.1.33. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TB I.6.99. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.8.5.c. The second verse is I.8.5.d. See the next Sūtra. ↩︎ ↩︎