१५

01 विस्रस्य यज्ञोपवीतानि प्राचीनावीतानि ...{Loading}...

विस्रस्य यज्ञोपवीतानि प्राचीनावीतानि कुर्वते । विपरिक्रामन्त्यृत्विजः । विपरिहरन्ति स्रुचो हवींषि परिश्रयणानीति १

02 दक्षिणेन जुहूमुपभृतं सादयति ...{Loading}...

दक्षिणेन जुहूमुपभृतं सादयति । दक्षिणेनोपभृतं ध्रुवां दक्षिणेन पुरोडाशं धानास्ता दक्षिणेन मन्थम् २

03 समानत्र जुहूषट्कपालौ ...{Loading}...

समानत्र जुहूषट्कपालौ ३

04 ब्रह्मयजमानावित्येके ...{Loading}...

ब्रह्मयजमानावित्येके ४

05 षडवत्तः पञ्चावत्तिनाम् पञ्चावत्तश्चतुरवत्तिनाम् ...{Loading}...

षडवत्तः पञ्चावत्तिनां पञ्चावत्तश्चतुरवत्तिनाम् ५

06 सम्भिन्दन्पुरोडाशस्यावद्यति ...{Loading}...

सम्भिन्दन्पुरोडाशस्यावद्यति ६

07 द्विः प्रथमस्यावद्येत्पञ्चावत्तिनः ...{Loading}...

द्विः प्रथमस्यावद्येत्पञ्चावत्तिनः ७

08 जुह्वामुपस्तीर्य सोमाय पितृमतेऽनु ...{Loading}...

जुह्वामुपस्तीर्य सोमाय पितृमतेऽनु स्वधेति संप्रेष्यति ८

09 सकृत्पुरोडाशस्यावद्यति सकृद्धानानां सकृन्मन्थस्य ...{Loading}...

सकृत्पुरोडाशस्यावद्यति सकृद्धानानां सकृन्मन्थस्य ९

10 दक्षिणतोऽवदायाभिघार्योदङ्ङतिक्रम्य दक्षिणामुखस्तिष्ठन्ना स्वधेत्याश्रावयति ...{Loading}...

दक्षिणतोऽवदायाभिघार्योदङ्ङतिक्रम्य दक्षिणामुखस्तिष्ठन्ना स्वधेत्याश्रावयति १०

11 अस्तु स्वधेति प्रत्याश्रावयति ...{Loading}...

अस्तु स्वधेति प्रत्याश्रावयति । सोमं पितृमन्तं स्वधेति सम्प्रेष्यति । ये स्वधामह इति यजति । स्वधा नम इति वषट्करोति ११

12 स्वधाकारन् तु प्रतिषिध्य ...{Loading}...

स्वधाकारं तु प्रतिषिध्य बह्वृचवाजसनेयिनामाश्रुतप्रत्याश्रुतान्येव विदधाति १२

13 द्वे पुरोऽनुवाक्ये अन्वाह ...{Loading}...

द्वे पुरोऽनुवाक्ये अन्वाह १३

14 ऋचमुक्त्वा प्रणौति अपरामुक्त्वा ...{Loading}...

ऋचमुक्त्वा प्रणौति । अपरामुक्त्वा प्रणौति १४

15 त्वं सोम प्रचिकित ...{Loading}...

त्वं सोम प्रचिकित इत्येता आम्नाता भवन्ति १५

16 एका याज्या ...{Loading}...

एका याज्या १६

17 अग्निष्वात्ताः पितर इत्येषा ...{Loading}...

अग्निष्वात्ताः पितर इत्येषा । ये अग्निष्वात्ता येऽनग्निष्वात्ता अंहोमुचः पितरः सोम्यासः । परेऽवरेऽमृतासो भवन्तोऽधिब्रुवन्तु ते अवन्त्वस्मान् । वान्यायै दुग्धे जुषमाणाः करम्भमुदीराणा अवरे परे च । अग्निष्वात्ता ऋतुभिः संविदाना इन्द्रवन्तो हविरिदं जुषन्तामिति पितृभ्योऽग्निष्वात्तेभ्यः १७

18 उपांशु परिश्रिते पितृयज्ञेन ...{Loading}...

उपांशु परिश्रिते पितृयज्ञेन चरन्ति १८

19 एतेनैव कल्पेन पितॄन्बर्हिषदो ...{Loading}...

एतेनैव कल्पेन पितॄन्बर्हिषदो यजत्यग्निष्वात्तान् १९

20 अग्निङ् कव्यवाहनं स्विष्टकृदर्थे ...{Loading}...

अग्निं कव्यवाहनं स्विष्टकृदर्थे यजति २०

21 यान् देवतां यजेत्तद्धविषः ...{Loading}...

यां देवतां यजेत्तद्धविषः प्रथममवदानमवद्यति २१

22 स चावदानकल्पः ...{Loading}...

स चावदानकल्पः २२

23 मन्थ इडामवद्यति मन्थं ...{Loading}...

मन्थ इडामवद्यति मन्थं वैव २३

24 मन्थं होत्र आदधाति ...{Loading}...

मन्थं होत्र आदधाति २४

25 तं होतावजिघ्रति ...{Loading}...

तं होतावजिघ्रति २५

इति पञ्चदशी कण्डिका


  1. Thus the Brahman and sacrificer who were so far to the south of the altar, should sit to the north of it and the Hotr̥, the Adhvaryu, and the Āgnīdhra should now go to the south (cp. VIII.16.15). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The ladles Juhū, Upbhr̥t, Dhruva were upto now (see II. 10.2). behind the fire on the altar, should now be kept as follows: the Juhū, to the north of the Upabhr̥t, and to the north of it the Dhruvā. The three oblations (sacrificial bread, fried grains, and stirred flour) are placed to the west of the ladles (II. 11.7) in the north. See for details the next two Sūtras. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. viz. the four mats which are to be used for enclosing the altar VII.13.15. should also undergo the change in their places. Thus the one which was so far in the west should be now in the east, the one in the south, in the north and vice versa. ↩︎ ↩︎

  4. Instead of ye yajāmahe. 5. Instead of vaṣat (vauṣaṭ). ↩︎