१४

01 सम्प्रैषकाले पत्नीवर्जं सम्प्रेष्यति …{Loading}…

सम्प्रैषकाले पत्नीवर्जं सम्प्रेष्यति १

02 आज्यग्रहणकाल उत्तरेण गार्हपत्यञ् …{Loading}…

आज्यग्रहणकाल उत्तरेण गार्हपत्यं चतुर्गृहीतान्याज्यानि गृह्णाति २

03 प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते …{Loading}…

प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते ३

04 स्तरणकाले बर्हिषा त्रिः …{Loading}…

स्तरणकाले बर्हिषा त्रिः प्रसव्यं वेदिं स्तृणन्पर्येति ४

05 औद्धवान्धारयमाणस्त्रिरस्तृणन्प्रतिपर्येति …{Loading}…

औद्धवान्धारयमाणस्त्रिरस्तृणन्प्रतिपर्येति ५

06 औद्धवः प्रस्तरः …{Loading}…

औद्धवः प्रस्तरः ६

07 प्रस्तरस्य ग्रहणसादने तूष्णीम् …{Loading}…

प्रस्तरस्य ग्रहणसादने तूष्णीम् ७

08 न विधृती …{Loading}…

न विधृती ८

09 द्वौ परिधी परिदधाति …{Loading}…

द्वौ परिधी परिदधाति ९

10 मध्यमोत्तरौ …{Loading}…

मध्यमोत्तरौ १०

12 सर्वान्वा यदि सर्वानावाहनकाले …{Loading}…

सर्वान्वा यदि सर्वानावाहनकाले परिधीँरपोर्ण्विति वाभिज्ञाय दक्षिणं मध्यमे परिधावुपसमस्येत् १२

13 उद्वासनकाले धाना उद्वास्य …{Loading}…

उद्वासनकाले धाना उद्वास्य विभागमन्त्रेण विभज्यार्धा आज्येन संयौति १३

14 अर्धाः पिष्टानामावृता सक्तून्कृत्वाभिवान्यायै …{Loading}…

अर्धाः पिष्टानामावृता सक्तून्कृत्वाभिवान्यायै दुग्धस्यार्धशरावे सक्तूनोप्यैकयेक्षुशलाकयेक्षुकाण्डेन वा दक्षिणामुखस्त्रिः प्रसव्यमनारभ्योपमन्थति १४

15 शलाकास्थम् मन्थङ् कृत्वैकैकशो …{Loading}…

शलाकास्थं मन्थं कृत्वैकैकशो हवींष्यासादयति १५

16 दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जनमुदकुम्भमित्येकैकश आसाद्य …{Loading}…

दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जनमुदकुम्भमित्येकैकश आसाद्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते १६

17 अग्नये देवेभ्यः पितृभ्यः …{Loading}…

अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीति सम्प्रेष्यति १७

18 एकां सामिधेनीन् त्रिरन्वाह …{Loading}…

एकां सामिधेनीं त्रिरन्वाह । उशन्तस्त्वा हवामह इत्येताम् १८

19 एकामनूयाजसमिधमवशिष्य समश इध्मन् …{Loading}…

एकामनूयाजसमिधमवशिष्य समश इध्मं त्रैधं विभज्य त्रिरादधाति १९

20 समानमा प्रवरात् …{Loading}…

समानमा प्रवरात् २०

21 नार्षेयं वृणीते न …{Loading}…

नार्षेयं वृणीते न होतारम् २१

22 आश्राव्याह सीद होतरिति …{Loading}…

आश्राव्याह सीद होतरिति । एतावान्प्रवरः २२

23 अपबर्हिषः प्रयाजानिष्ट्वा जीववन्तावाज्यभागौ …{Loading}…

अपबर्हिषः प्रयाजानिष्ट्वा जीववन्तावाज्यभागौ यजति २३

24 आ नो अग्ने …{Loading}…

आ नो अग्ने सुकेतुना रयिं विश्वायुपोषसम् । मार्डीकं धेहि जीवसे । त्वं सोम महे भगं त्वं यून ऋतायते । दक्षं दधासि जीवस इति जीववन्तौ २४

25 अत्र वेद्याः परिश्रयणमेके …{Loading}…

अत्र वेद्याः परिश्रयणमेके समामनन्ति २५

इति चतुर्दशी कण्डिका


  1. See II.3.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Thus he omits the words patniṁ saṁnahya “(having girdled the wife of the sacrificer).” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. cf. TB I.6.8.4-5. ↩︎ ↩︎