१३

01 तदानीमेव पितृयज्ञस्य तन्त्रम् ...{Loading}...

तदानीमेव पितृयज्ञस्य तन्त्रं प्रक्रमयति १

02 वेदङ् कृत्वाग्रेणान्वाहार्यपचनं यजमानमात्रीञ् ...{Loading}...

वेदं कृत्वाग्रेणान्वाहार्यपचनं यजमानमात्रीं चतुःस्रक्तिं वेदिं करोति २

03 प्रतिदिशं स्रक्तयोऽवान्तरदेशान्प्रति मध्यानि ...{Loading}...

प्रतिदिशं स्रक्तयोऽवान्तरदेशान्प्रति मध्यानि ३

04 उद्धता खाता भवति ...{Loading}...

उद्धता खाता भवति ४

05 न प्राची वेदिरुद्धत्या ...{Loading}...

न प्राची वेदिरुद्धत्या । पितृयज्ञो हि । न दक्षिणा । यज्ञो हि । उभे दिशावन्तरोद्धत्या । उभये हि देवाश्च पितरश्चेज्यान्त इति विज्ञायते ५

06 ये के च ...{Loading}...

ये के च देवसंयुक्ता मन्त्रा देवेभ्यः पितृभ्य इति तान्सन्नमति । यथा भवति पृथिवि देवपितृयजनीति ६

07 अविकारो वा परवाक्यश्रवणात् ...{Loading}...

अविकारो वा परवाक्यश्रवणात् ७

08 प्रागुत्तरात्परिग्राहात्कृत्वा दक्षिणाग्नेरग्निमाहृत्य मध्ये ...{Loading}...

प्रागुत्तरात्परिग्राहात्कृत्वा दक्षिणाग्नेरग्निमाहृत्य मध्ये वेद्या उपसमादधाति ८

09 एतस्मिन्पितृयज्ञ आहवनीयकर्माणि क्रियन्ते ...{Loading}...

एतस्मिन्पितृयज्ञ आहवनीयकर्माणि क्रियन्ते ९

10 अग्नीनन्वाधायेध्माबर्हिराहरति ...{Loading}...

अग्नीनन्वाधायेध्माबर्हिराहरति १०

11 समूलम् बर्हिर्दाति ...{Loading}...

समूलं बर्हिर्दाति ११

12 उपमूललूनं वा ...{Loading}...

उपमूललूनं वा १२

13 वर्षीयानर्थादिध्मो द्राधीयांश्च ...{Loading}...

वर्षीयानर्थादिध्मो द्राधीयांश्च १३

14 अग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म ...{Loading}...

अग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते । यथार्थं पात्रप्रयोगः १४

15 निर्वपणकाले सर्वतो वेदिम् ...{Loading}...

निर्वपणकाले सर्वतो वेदिं परिश्रित्योत्तरेण द्वारं कृत्वा दक्षिणतः प्राचीनावीती हवींषि निर्वपति । उत्तरतो वा । यज्ञोपवीती सोमाय पितृमत इति यथासमाम्नातम् १५

16 अथैकेषाम् सोमाय पितृमत ...{Loading}...

अथैकेषाम् । सोमाय पितृमत आज्यं पितृभ्यो बर्हिषद्भ्यः षट्कपालं पितृभ्यो ग्निष्वात्तेभ्यो धाना अग्नये कव्यवाहनाय यमाय वा मन्थं यमायाङ्गिरस्वते पितृमते १६

17 उदकुम्भः प्रोक्षणीभाजनम् भवति ...{Loading}...

उदकुम्भः प्रोक्षणीभाजनं भवति १७

18 प्रोक्षण्युद्रेकेण यवान्संयुत्य त्रिष्फलीकृतांस्तण्डुलान्विभागमन्त्रेण ...{Loading}...

प्रोक्षण्युद्रेकेण यवान्संयुत्य त्रिष्फलीकृतांस्तण्डुलान्विभागमन्त्रेण विभज्य धानार्थान्निधायेतरान्पिष्टानि कृत्वा दक्षिणार्धे गार्हपत्यस्य षट्कपालान्युपधाय दक्षिणाग्नौ प्रथमेन कपालमन्त्रेण धानार्थं कपालमधिश्रयति १८

19 अधिश्रयणकाले ऽधिश्रयणमन्त्रेण तण्डुलानोप्य ...{Loading}...

अधिश्रयणकाले ऽधिश्रयणमन्त्रेण तण्डुलानोप्य बहुरूपा धानाः करोति १९

20 विदह्यमानाः परिशेरत इति ...{Loading}...

विदह्यमानाः परिशेरत इति विज्ञायते २०

इति त्रयोदशी कण्डिका