१२

01 ततो महाहविषस्तन्त्रम् प्रक्रमयति ...{Loading}...

ततो महाहविषस्तन्त्रं प्रक्रमयति १

02 तस्य वारुणप्रघासिकेनोत्तरेण विहारेण ...{Loading}...

तस्य वारुणप्रघासिकेनोत्तरेण विहारेण कल्पो व्याख्यातः २

03 निर्वपणकाल आग्नेयमष्टाकपालमित्यष्टावुत्तराणि हवींषि ...{Loading}...

निर्वपणकाल आग्नेयमष्टाकपालमित्यष्टावुत्तराणि हवींषि निर्वपति ३

04 ऐन्द्रस्य चरोः स्थान ...{Loading}...

ऐन्द्रस्य चरोः स्थान इन्द्राय वृत्रघ्ने चरुमेके समामनन्ति । अग्ने वेर्होत्रं वेर्दूत्यमूर्ध्वो अध्वरे स्थात् । अवतां त्वा द्यावापृथिवी अव त्वं द्यावापृथिवी । स्विष्टकृदिन्द्राय देवेभ्यो भव जुषाणो अस्य हविषो घृतस्य वीहि स्वाहेति स्रुच्यमाघारयति । वागस्याग्नेयीत्यनुमन्त्रयते यजमानः ४

05 सहश्च सहस्यश्चेति चतुर्भिर्मासनामभिरेककपालभभिजुहोति ...{Loading}...

सहश्च सहस्यश्चेति चतुर्भिर्मासनामभिरेककपालभभिजुहोति । धेनुर्दक्षिणर्षभो वा प्रवयाः । इदावत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते । एवं यजमानो जपति । आशास इति मन्त्रं सन्नमति ५

06 ऐन्द्राग्नतुषानप्सु प्रतिपादयति ...{Loading}...

ऐन्द्राग्नतुषानप्सु प्रतिपादयति ६

07 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः संतिष्ठते ७

इति द्वादशी कण्डिका इति तृतीयः पटलः


  1. See I.17.10 ↩︎ ↩︎ ↩︎

  2. See TS 1.8.4. In addition to the five regularly repeating offerings (see VIII.2.3) there should be the following three: i. sacrificial bread on eleven potsherds for Indra-Agni
    ii. rice pap for Indra iii. a sacrificial bread on one potsherd for Viśvakarman. ↩︎ ↩︎ ↩︎

  3. Cp. KS IX.5 ↩︎ ↩︎

  4. Instead of TS I.6.2k. ↩︎ ↩︎