११

01 उत्तरस्मात्स्विष्टकृतम् …{Loading}…

उत्तरस्मात्स्विष्टकृतम् १

02 ओदनयोर्निम्ने कृत्वा तत्राज्यमानीय …{Loading}…

ओदनयोर्निम्ने कृत्वा तत्राज्यमानीय तत आज्यार्थान्कुरुत आज्यस्थाल्या वेति वाजसनेयकम् २

03 एवङ् कुर्वन्न ध्रुवायाङ् …{Loading}…

एवं कुर्वन्न ध्रुवायां गृह्णीयात् ३

04 आज्यभागाभ्याम् प्रचर्य जुह्वामुपस्तीर्य …{Loading}…

आज्यभागाभ्यां प्रचर्य जुह्वामुपस्तीर्य सर्वतः समवदाय मरुतो गृहमेधिनो यजति ४

05 सर्वेषामुत्तरार्धात्सकृत्सकृदवदायाग्निं स्विष्टकृतम् …{Loading}…

सर्वेषामुत्तरार्धात्सकृत्सकृदवदायाग्निं स्विष्टकृतम् ५

06 न प्राशित्रन् न …{Loading}…

न प्राशित्रं न यजमानभागम् ६

07 इडान्तः सन्तिष्ठते …{Loading}…

इडान्तः सन्तिष्ठते ७

08 ये यजमानस्यामात्या हविरुच्छिष्टाशास्ते …{Loading}…

ये यजमानस्यामात्या हविरुच्छिष्टाशास्ते ओदनशेषान्प्राश्नन्ति । ऋत्विजोऽन्ये वा ब्राह्मणाः ८

09 प्राश्नन्ति ब्राह्मणा ओदनं …{Loading}…

प्राश्नन्ति ब्राह्मणा ओदनं यः स्थाल्याम् ९

10 सुहिता एतां रात्रिं …{Loading}…

सुहिता एतां रात्रिं वसन्ति प्रतीता अनवर्तिमुखिनः १०

11 प्रतिवेशा अपि पचन्ते …{Loading}…

प्रतिवेशा अपि पचन्ते ११

12 गा अभिघ्नते …{Loading}…

गा अभिघ्नते १२

13 आञ्जतेऽभ्यञ्जते …{Loading}…

आञ्जतेऽभ्यञ्जते १३

14 अनु वत्सान्वासयन्ति …{Loading}…

अनु वत्सान्वासयन्ति १४

15 अनिष्कासितां स्थालीन् निदधाति …{Loading}…

अनिष्कासितां स्थालीं निदधाति १५

16 अप्रमृष्टन् दर्व्युदायुवनमन्ववदधाति …{Loading}…

अप्रमृष्टं दर्व्युदायुवनमन्ववदधाति १६

17 पराचीनरात्रेऽभिवान्याया अग्निहोत्र्यै च …{Loading}…

पराचीनरात्रेऽभिवान्याया अग्निहोत्र्यै च वत्सौ बध्नाति १७

18 ब्युष्टायाम् पुराग्निहोत्रात्पूर्णदर्व्येण चरन्ति …{Loading}…

ब्युष्टायां पुराग्निहोत्रात्पूर्णदर्व्येण चरन्ति । हुते वा १८

19 शरनिष्कासस्य दर्वीम् पूरयित्वर्षभमाहूय …{Loading}…

शरनिष्कासस्य दर्वीं पूरयित्वर्षभमाहूय तस्य रवेते पूर्णा दर्वि परापतेत्यनुद्रुत्योत्तरया गार्हपत्ये जुहुयात् १९

20 यद्यृषभो न रूयाद्ब्रह्मा …{Loading}…

यद्यृषभो न रूयाद्ब्रह्मा ब्रूयाज्जुहुधीति २०

21 यस्य रवते जुहोति …{Loading}…

यस्य रवते जुहोति तां दक्षिणां ददाति २१

22 मरुद्भ्यः क्रीडिभ्यः स्वतवद्भ्यो …{Loading}…

मरुद्भ्यः क्रीडिभ्यः स्वतवद्भ्यो वा पुरोडाशं सप्तकपालं निर्वपति । साकं सूर्येणोद्यता साकं वा रश्मिभिः प्रचरन्ति । सिद्धमिष्टिः सन्तिष्ठते २२

इत्येकादशी कण्डिका


  1. See ŚB II.5.3.9-11; 11-15. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For the portion of the sacrificer see III.2.9-11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS 1.8.4.b. ↩︎

  4. TS 1.8.4.c. ↩︎

  5. Cf. TB 1.6.7.3. ↩︎