१०

01 चतुरो मुष्टीन्निरुप्य बह्वन्वावपति ...{Loading}...

चतुरो मुष्टीन्निरुप्य बह्वन्वावपति १

02 कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण ...{Loading}...

कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण चरुमुपदधाति । ध्रुवोऽसीति मन्त्रं सन्नमति । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति २

03 अधिश्रयणकाले प्रातर्दोहवत्सर्वा यजमानस्य ...{Loading}...

अधिश्रयणकाले प्रातर्दोहवत्सर्वा यजमानस्य गा दोहयित्वा तस्मिञ्छ्रपयति ३

04 सम्प्रैषकाले यदन्यदिध्माबर्हिषस्तत्सम्प्रेष्यति आज्य ...{Loading}...

सम्प्रैषकाले यदन्यदिध्माबर्हिषस्तत्सम्प्रेष्यति । आज्य ग्रहणकाले ध्रुवायामेव गृह्णाति ४

05 प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य वेदिम् ...{Loading}...

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य वेदिं प्रोक्ष्य प्रोक्षणीशेषं निनीय पवित्रे अपिसृज्यान्तर्वेदि विधृती निधाय ध्रुवां स्रुवं च सादयति ५

06 एतावसदतामिति मन्त्रं सन्नमति ...{Loading}...

एतावसदतामिति मन्त्रं सन्नमति ६

07 उद्वासनकाले शरन् निधाय ...{Loading}...

उद्वासनकाले शरं निधाय यावन्तो यजमानस्यामात्यास्तावत ओदनानुद्धरति ७

08 अतो भूयसो यदि ...{Loading}...

अतो भूयसो यदि बहुरोदनो भवति ८

09 उद्धृतानुत्पूतानलङ्कृतानभिघारितानासादयति ...{Loading}...

उद्धृतानुत्पूतानलङ्कृतानभिघारितानासादयति ९

10 दक्षिणाग्नौ पत्न्याः प्रतिवेशमोदनम् ...{Loading}...

दक्षिणाग्नौ पत्न्याः प्रतिवेशमोदनं पचति १०

11 तन् नाभिघारयति ...{Loading}...

तं नाभिघारयति ११

12 द्वयोरुद्धरणं वाजसनेयिनः समामनन्ति ...{Loading}...

द्वयोरुद्धरणं वाजसनेयिनः समामनन्ति । दक्षिणादेव मरुतो गृहमेधिनो यजति १२

इति दशमी कण्डिका


  1. See I.22.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Instead of dhruvamasi. See I.22.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See I.24.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. See I.8.3. ↩︎

  5. See II.8.4. ↩︎

  6. See II.9.12. ↩︎

  7. See II.9.15. ↩︎