०९

01 ततश्चतुर्षु मासेषु पूर्वस्मिन्पर्वण्युपक्रम्य ...{Loading}...

ततश्चतुर्षु मासेषु पूर्वस्मिन्पर्वण्युपक्रम्य द्व्यहं साकमेधैर्यजते १

02 अग्नये ऽनीकवते पुरोडाशमष्टाकपालन् ...{Loading}...

अग्नये ऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकं सूर्येणोद्यता २

03 साकं वा रश्मिभिः ...{Loading}...

साकं वा रश्मिभिः प्रचरन्ति ३

04 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते ४

05 मरुद्भ्यः सान्तपनेभ्यो मध्यन्दिने ...{Loading}...

मरुद्भ्यः सान्तपनेभ्यो मध्यंदिने चरुम् ५

06 न बर्हिरनुप्रहरति ...{Loading}...

न बर्हिरनुप्रहरति ६

07 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते ७

08 मरुद्भ्यो गृहमेधिभ्यः सर्वासान् ...{Loading}...

मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम् ८

09 यत्सान्तपनस्य बर्हिस्तद्गृहमेधीयस्य ...{Loading}...

यत्सान्तपनस्य बर्हिस्तद्गृहमेधीयस्य ९

10 अपि वा नेध्माबर्हिर्भवति ...{Loading}...

अपि वा नेध्माबर्हिर्भवति । न सामिधेनीरन्वाह । न प्रयाजा इज्यन्ते नानूयाजाः १०

11 अयजुष्केण वत्सानपाकृत्यापवित्रेण गा ...{Loading}...

अयजुष्केण वत्सानपाकृत्यापवित्रेण गा दोहयति ११

12 स वै खलु ...{Loading}...

स वै खलु पर्णशाखया वत्सानपाकृत्य पवित्रवति सन्दोह्य यथैतदमावास्यायां क्रियते तं चरुं श्रपयतीत्येके १२

13 अग्नीनन्वाधाय वेदङ् कृत्वाग्नीन्परिस्तीर्य ...{Loading}...

अग्नीनन्वाधाय वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते । यथार्थं पात्राणि प्रयुनक्ति १३

14 स्थालीङ् कपालानां स्थाने ...{Loading}...

स्थालीं कपालानां स्थाने १४

15 निर्वपणकाले ...{Loading}...

निर्वपणकाले १५

इति नवमी कण्डिका


  1. i.e. in the Kārttikā or Mārgaśirṣa. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. on the day preceding the full-moon-day. See VIII.1.3. ↩︎ ↩︎ ↩︎ ↩︎

  3. See I.11.4.; I.14.12-15. ↩︎

  4. See I.15.4-6. ↩︎

  5. See I.15.6-14. ↩︎