०८

01 अग्नीदपस्त्रिः सम्मृड्ढीति सम्प्रेष्यति ...{Loading}...

अग्नीदपस्त्रिः सम्मृड्ढीति सम्प्रेष्यति १

02 आपो वाजजितो वाजं ...{Loading}...

आपो वाजजितो वाजं वः सरिष्यन्तीर्वाजं जेष्यन्तीर्वाजिनीर्वाजजितो वाजजित्यायै सम्मार्ज्म्यपो अन्नादा अन्नाद्यायेति मन्त्रं सन्नमति २

03 अग्नेरनीकमप आविवेशेति स्रुच्यमाघारयति ...{Loading}...

अग्नेरनीकमप आविवेशेति स्रुच्यमाघारयति ३

04 वागस्याग्नेयीत्यनुमन्त्रयते यजमानः ...{Loading}...

वागस्याग्नेयीत्यनुमन्त्रयते यजमानः ४

05 लुप्यते प्रवरः ...{Loading}...

लुप्यते प्रवरः ५

06 अपबर्हिषः प्रयाजानिष्ट्वाप्सुमन्तावाज्यभागौ यजति ...{Loading}...

अपबर्हिषः प्रयाजानिष्ट्वाप्सुमन्तावाज्यभागौ यजति ६

07 अप्स्वग्न इत्येषा अप्सु ...{Loading}...

अप्स्वग्न इत्येषा । अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीरित्यप्सुमन्तौ ७

08 निष्कासस्यावदाय वरुणमिष्ट्वा कृत्स्नन् ...{Loading}...

निष्कासस्यावदाय वरुणमिष्ट्वा कृत्स्नं निष्कासमवदायाग्नीवरुणौ स्विष्टकृदर्थे यजति ८

09 नोत्तरङ् क्रियते ...{Loading}...

नोत्तरं क्रियते ९

10 अपि वौपभृतञ् जुह्वामानीयापबर्हिषावनूयाजौ ...{Loading}...

अपि वौपभृतं जुह्वामानीयापबर्हिषावनूयाजौ यजति १०

11 देवौ यजेति प्रथमं ...{Loading}...

देवौ यजेति प्रथमं सम्प्रेष्यति । यजेत्युत्तरम् ११

12 तुषाणां स्थालीम् पूरयित्वाप्सूपमारयति ...{Loading}...

तुषाणां स्थालीं पूरयित्वाप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तरिति १२

13 अपि वा न ...{Loading}...

अपि वा न सौमिकोऽवभृथः । तूष्णीं तुषनिष्कासमप्सूपवपेत् १३

14 इमं विष्यामीति पत्नी ...{Loading}...

इमं विष्यामीति पत्नी योक्त्वपाशं विमुञ्चते १४

15 देवीराप इत्यवभृथं यजमानो ...{Loading}...

देवीराप इत्यवभृथं यजमानो ऽभिमन्त्र्य सुमित्रा न आप ओषधय इत्यपः प्रगाह्य सशिरस्कावनुपमक्षन्तौ स्नातः पत्नी यजमानश्च १५

16 अन्योऽन्यस्य पृष्ठे प्रधावतः ...{Loading}...

अन्योऽन्यस्य पृष्ठे प्रधावतः १६

17 काममेते वाससी यस्मै ...{Loading}...

काममेते वाससी यस्मै कामयेयातां तस्मै दद्याताम् । नहि दीक्षितवसने भवत इति वाजसनेयकम् १७

18 उद्वयन् तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो ...{Loading}...

उद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यसित्वा समिधः कृत्वाप्रतीक्षास्तूष्णीमेत्यैधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते १८

19 अत्र पौर्णमास्येष्ट्वोन्दनादि पूर्ववन्निवर्तनम् ...{Loading}...

अत्र पौर्णमास्येष्ट्वोन्दनादि पूर्ववन्निवर्तनम् १९

20 सर्वं वा वापयेत् ...{Loading}...

सर्वं वा वापयेत् २०

21 मन्त्रादिर्विक्रियते यद्घर्मः पर्यवर्तयदन्तान्पृथिव्या ...{Loading}...

मन्त्रादिर्विक्रियते । यद्घर्मः पर्यवर्तयदन्तान्पृथिव्या दिवः । अग्निरीशान ओजसा वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह । अग्निस्तिग्मेनेति समानम् २१

22 अपि वा स्नात्वोप्त्वा ...{Loading}...

अपि वा स्नात्वोप्त्वा केशश्मश्रूण्यरण्योरग्नीन्समारोप्योदवसाय निर्मथ्य पौर्णमासेन यजते २२

23 यज्ञो ह वा ...{Loading}...

यज्ञो ह वा एष यद्वरुणप्रघासा नह्यवकल्पते यदुत्तरवेद्यामग्निहोत्रं जुहुयादिति वाजसनेयकम् २३

इत्यष्टमी कण्डिका इति द्वितीयः पटलः


  1. Cp. II.12.10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. II.14.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. KB XVIII. 10. ↩︎ ↩︎

  4. Cf. TS VI.6.3.5. ↩︎

  5. TS I.4.45.k. ↩︎

  6. TS I.4.45.1. ↩︎