०७

01 कायानुब्रूहि कं यजेत्येककपाले ...{Loading}...

कायानुब्रूहि कं यजेत्येककपाले सम्प्रैषौ १

02 नभश्च नभस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति ...{Loading}...

नभश्च नभस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति २

03 तदु हैके पृथगीडे ...{Loading}...

तदु हैके पृथगीडे निरवद्यन्ति । तदु तथा न कुर्यात् । सप्तानां हविषां समवदायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति । तस्मिन्प्रतिप्रस्थाता मारुत्या अन्ववदधाति ३

04 उपहूताम् प्राश्नन्ति ...{Loading}...

उपहूतां प्राश्नन्ति ४

05 यः प्रवया इवर्षभः ...{Loading}...

यः प्रवया इवर्षभः स दक्षिणा ५

06 कामन् तु ततो ...{Loading}...

कामं तु ततो भूयो दद्यात् ६

07 धेनुर्दक्षिणेत्येके ...{Loading}...

धेनुर्दक्षिणेत्येके ७

08 परिवत्सरीणां स्वस्तिमाशास्ते दिव्यन् ...{Loading}...

परिवत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते । एवं यजमानो जपति । आशास इति मन्त्रं सन्नमति ८

09 उभौ वाजिनाभ्याम् प्रचरतः ...{Loading}...

उभौ वाजिनाभ्यां प्रचरतः ९

10 शेषौ समवनीयोत्तरे विहारे ...{Loading}...

शेषौ समवनीयोत्तरे विहारे पूर्ववद्भक्षयन्त्या मा विशन्त्विन्दव आ गल्गा धवनीनां रसेन मे रसं पृण । तस्य ते वाजोभिर्भक्षङ्कृतस्येति समानम् १०

11 पूर्णपात्रवज पूर्ववदिष्टिं संस्थापयति ...{Loading}...

पूर्णपात्रवज पूर्ववदिष्टिं संस्थापयति ११

12 पूर्णपात्रस्य स्थाने सौमिकोऽवभृथः ...{Loading}...

पूर्णपात्रस्य स्थाने सौमिकोऽवभृथः १२

13 चतुर्गृहीतान्याज्यानि ...{Loading}...

चतुर्गृहीतान्याज्यानि १३

14 वारुण्यै निष्कासेन तुषैश्चावभृथमवयन्ति ...{Loading}...

वारुण्यै निष्कासेन तुषैश्चावभृथमवयन्ति १४

15 तुषा ऋजीषधर्मं लभन्ते ...{Loading}...

तुषा ऋजीषधर्मं लभन्ते १५

16 वारुणमेककपालमेके समामनन्ति ...{Loading}...

वारुणमेककपालमेके समामनन्ति १६

17 नायुर्दान् नाभिप्रव्रजनमन्त्रन् न ...{Loading}...

नायुर्दां नाभिप्रव्रजनमन्त्रं न साम गायति १७

18 सर्वा दिशोऽवभृथगमनमाम्नातम् ...{Loading}...

सर्वा दिशोऽवभृथगमनमाम्नातम् १८

19 नोदीचीरभ्यवेत्या इत्येके ...{Loading}...

नोदीचीरभ्यवेत्या इत्येके १९

20 यान् दिशङ् गच्छेयुस्तथामुखाः ...{Loading}...

यां दिशं गच्छेयुस्तथामुखाः प्रचरेयुरित्येके २०

21 वहन्तीनां स्थावरा अभ्यवेत्याः ...{Loading}...

वहन्तीनां स्थावरा अभ्यवेत्याः २१

22 तदभावे याथाकामी ...{Loading}...

तदभावे याथाकामी २२

23 उदकान्ते स्तरणान्तां वेदिङ् ...{Loading}...

उदकान्ते स्तरणान्तां वेदिं कृत्वा तस्यां हवींषि सादयति २३

24 अपि वा न ...{Loading}...

अपि वा न वेदिः २४

25 शतन् ते राजन्भिषजः ...{Loading}...

शतं ते राजन्भिषजः सहस्रमित्यपो दृष्ट्वा जपति २५

26 अभिष्ठितो वरुणस्य पाश ...{Loading}...

अभिष्ठितो वरुणस्य पाश इत्युदकान्तमभितिष्ठन्ते २६

27 अपः प्रगाह्य तिष्ठन्तोऽवभृथेन ...{Loading}...

अपः प्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति २७

28 तृणम् प्रहृत्य स्रौवमाघारयति ...{Loading}...

तृणं प्रहृत्य स्रौवमाघारयति २८

29 यदि वा पुरा ...{Loading}...

यदि वा पुरा तृणं स्यात्तस्मिञ्जुहुयात् २९

इति सप्तमी कण्डिका


  1. For the performance of the offering of this bread see VII.2.17; VI. 29.22-30.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. VIII.2.18. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎