०७

01 कायानुब्रूहि कं यजेत्येककपाले …{Loading}…

कायानुब्रूहि कं यजेत्येककपाले सम्प्रैषौ १

02 नभश्च नभस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति …{Loading}…

नभश्च नभस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति २

03 तदु हैके पृथगीडे …{Loading}…

तदु हैके पृथगीडे निरवद्यन्ति । तदु तथा न कुर्यात् । सप्तानां हविषां समवदायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति । तस्मिन्प्रतिप्रस्थाता मारुत्या अन्ववदधाति ३

04 उपहूताम् प्राश्नन्ति …{Loading}…

उपहूतां प्राश्नन्ति ४

05 यः प्रवया इवर्षभः …{Loading}…

यः प्रवया इवर्षभः स दक्षिणा ५

06 कामन् तु ततो …{Loading}…

कामं तु ततो भूयो दद्यात् ६

07 धेनुर्दक्षिणेत्येके …{Loading}…

धेनुर्दक्षिणेत्येके ७

08 परिवत्सरीणां स्वस्तिमाशास्ते दिव्यन् …{Loading}…

परिवत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते । एवं यजमानो जपति । आशास इति मन्त्रं सन्नमति ८

09 उभौ वाजिनाभ्याम् प्रचरतः …{Loading}…

उभौ वाजिनाभ्यां प्रचरतः ९

10 शेषौ समवनीयोत्तरे विहारे …{Loading}…

शेषौ समवनीयोत्तरे विहारे पूर्ववद्भक्षयन्त्या मा विशन्त्विन्दव आ गल्गा धवनीनां रसेन मे रसं पृण । तस्य ते वाजोभिर्भक्षङ्कृतस्येति समानम् १०

11 पूर्णपात्रवज पूर्ववदिष्टिं संस्थापयति …{Loading}…

पूर्णपात्रवज पूर्ववदिष्टिं संस्थापयति ११

12 पूर्णपात्रस्य स्थाने सौमिकोऽवभृथः …{Loading}…

पूर्णपात्रस्य स्थाने सौमिकोऽवभृथः १२

13 चतुर्गृहीतान्याज्यानि …{Loading}…

चतुर्गृहीतान्याज्यानि १३

14 वारुण्यै निष्कासेन तुषैश्चावभृथमवयन्ति …{Loading}…

वारुण्यै निष्कासेन तुषैश्चावभृथमवयन्ति १४

15 तुषा ऋजीषधर्मं लभन्ते …{Loading}…

तुषा ऋजीषधर्मं लभन्ते १५

16 वारुणमेककपालमेके समामनन्ति …{Loading}…

वारुणमेककपालमेके समामनन्ति १६

17 नायुर्दान् नाभिप्रव्रजनमन्त्रन् न …{Loading}…

नायुर्दां नाभिप्रव्रजनमन्त्रं न साम गायति १७

18 सर्वा दिशोऽवभृथगमनमाम्नातम् …{Loading}…

सर्वा दिशोऽवभृथगमनमाम्नातम् १८

19 नोदीचीरभ्यवेत्या इत्येके …{Loading}…

नोदीचीरभ्यवेत्या इत्येके १९

20 यान् दिशङ् गच्छेयुस्तथामुखाः …{Loading}…

यां दिशं गच्छेयुस्तथामुखाः प्रचरेयुरित्येके २०

21 वहन्तीनां स्थावरा अभ्यवेत्याः …{Loading}…

वहन्तीनां स्थावरा अभ्यवेत्याः २१

22 तदभावे याथाकामी …{Loading}…

तदभावे याथाकामी २२

23 उदकान्ते स्तरणान्तां वेदिङ् …{Loading}…

उदकान्ते स्तरणान्तां वेदिं कृत्वा तस्यां हवींषि सादयति २३

24 अपि वा न …{Loading}…

अपि वा न वेदिः २४

25 शतन् ते राजन्भिषजः …{Loading}…

शतं ते राजन्भिषजः सहस्रमित्यपो दृष्ट्वा जपति २५

26 अभिष्ठितो वरुणस्य पाश …{Loading}…

अभिष्ठितो वरुणस्य पाश इत्युदकान्तमभितिष्ठन्ते २६

27 अपः प्रगाह्य तिष्ठन्तोऽवभृथेन …{Loading}…

अपः प्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति २७

28 तृणम् प्रहृत्य स्रौवमाघारयति …{Loading}…

तृणं प्रहृत्य स्रौवमाघारयति २८

29 यदि वा पुरा …{Loading}…

यदि वा पुरा तृणं स्यात्तस्मिञ्जुहुयात् २९

इति सप्तमी कण्डिका


  1. For the performance of the offering of this bread see VII.2.17; VI. 29.22-30.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. VIII.2.18. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎