०६

01 स्त्रियाः स्त्रिष्यञ्जनानि …{Loading}…

स्त्रियाः स्त्रिष्यञ्जनानि १

02 पुंसः पुंव्यञ्जनानि …{Loading}…

पुंसः पुंव्यञ्जनानि २

03 अपि वा पूर्वेद्युरन्वाहार्यपचने …{Loading}…

अपि वा पूर्वेद्युरन्वाहार्यपचने वितुषानिव यवान्कृत्वा तेषामीषदुपतप्तानां पत्नी करम्भपात्राणि करोति ३

04 अत्रापि मेषम् मेषीञ् …{Loading}…

अत्रापि मेषं मेषीं च करोतीति वाजसनेयकम् ४

05 ऐन्द्राग्नपर्यन्तान्यधिश्रित्यैकादशसु कपालेषु मेषीमधिश्रयति …{Loading}…

ऐन्द्राग्नपर्यन्तान्यधिश्रित्यैकादशसु कपालेषु मेषीमधिश्रयति । अष्टासु मेषम् ५

06 कुम्भीपाक्यौ वा भवतः …{Loading}…

कुम्भीपाक्यौ वा भवतः ६

07 कायमेककपालमधिश्रित्याप्येभ्यो निनीयाग्नी प्रणयत …{Loading}…

कायमेककपालमधिश्रित्याप्येभ्यो निनीयाग्नी प्रणयत इति वाजसनेयकम् ७

08 पशुवत्सम्प्रैषः तथाज्यानि …{Loading}…

पशुवत्सम्प्रैषः । तथाज्यानि ८

09 पृषदाज्ये विकारः महीनाम् …{Loading}…

पृषदाज्ये विकारः । महीनां पयोऽसीति पृषदाज्यधान्यां सकृदाज्यं गृह्णाति । द्विर्दधि द्विराज्यम् ९

10 यद्यु वै श्रवणायां …{Loading}…

यद्यु वै श्रवणायां संसृज्य गृह्णीयात् १०

11 उद्वासनकालेऽनैडकीभिरूर्णाभिर्मेषप्रतिकृती लोमशौ कुरुतः …{Loading}…

उद्वासनकालेऽनैडकीभिरूर्णाभिर्मेषप्रतिकृती लोमशौ कुरुतः ११

12 तदभावे कुशोर्णा निश्लेष्य …{Loading}…

तदभावे कुशोर्णा निश्लेष्य मारुत्यां मेषमवदधाति । वारुण्यां मेषीम् १२

13 अथाभ्यां शमीपर्णकरीराण्युपवपति परःशतानि …{Loading}…

अथाभ्यां शमीपर्णकरीराण्युपवपति परःशतानि परःसहस्राणि वा १३

14 करम्भपात्रेषु चान्वोप्याष्टावुत्तरस्यां वेद्यां …{Loading}…

करम्भपात्रेषु चान्वोप्याष्टावुत्तरस्यां वेद्यां हवींष्यासादयति १४

15 एकाम् मारुतीम् प्रतिप्रस्थाता …{Loading}…

एकां मारुतीं प्रतिप्रस्थाता दक्षिणस्यां करम्भपात्राणि च १५

16 अत्र मेषप्रतिकृती व्यतिहरतः …{Loading}…

अत्र मेषप्रतिकृती व्यतिहरतः १६

17 मारुत्याम् मेषीमवदधाति वारुण्याम् …{Loading}…

मारुत्यां मेषीमवदधाति । वारुण्यां मेषम् १७

18 पशुवन्निर्मन्थ्यौ सामिधेन्यश्च न …{Loading}…

पशुवन्निर्मन्थ्यौ सामिधेन्यश्च न व प्रयाजानूयाजाः १८

19 प्रघास्यान्हवामह इति प्रतिप्रस्थाता …{Loading}…

प्रघास्यान्हवामह इति प्रतिप्रस्थाता पत्नीमुदानयत्येतच्च वाचयति १९

20 ताम् पृच्छति पत्नि …{Loading}…

तां पृच्छति पत्नि कति ते जारा इति २०

21 यानाचष्टे तान्वरुणो गृह्णात्विति …{Loading}…

यानाचष्टे तान्वरुणो गृह्णात्विति निर्दिशति २१

22 यज्जारं सन्तन् न …{Loading}…

यज्जारं सन्तं न प्रब्रूयात्प्रियं ज्ञातिं रुन्ध्यात् । असौ मे जार इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयतीति विज्ञायते २२

23 सम्मृष्ट उत्तरोऽग्निर्भवत्यसम्मृष्टो दक्षिणः …{Loading}…

सम्मृष्ट उत्तरोऽग्निर्भवत्यसम्मृष्टो दक्षिणः । अथान्तरा वेदी गत्वा यजमानः पत्नी चोत्तरेण वोत्तरां वेदिमैषीके शूर्पे करम्भपात्राण्योप्य शीर्षन्नधिनिधाय पुरस्तात्प्रत्यञ्चौ तिष्ठन्तौ दक्षिणेऽग्नौ शूर्पेण जुहुतः २३

24 मो षू ण …{Loading}…

मो षू ण इन्द्रेति यजमानः पुरोऽनुवाक्यामन्वाह । यद्ग्राम इत्युभौ याज्याम् २४

25 अक्रन्कर्म कर्मकृत इति …{Loading}…

अक्रन्कर्म कर्मकृत इति विपरायन्तौ जपतः २५

26 अपि वाध्वर्युः प्रतिप्रस्थाता …{Loading}…

अपि वाध्वर्युः प्रतिप्रस्थाता वा जुहुयात् । अन्वारभेयातामितरौ २६

27 अत्र दक्षिणमग्निं सम्मार्ष्टि …{Loading}…

अत्र दक्षिणमग्निं सम्मार्ष्टि २७

28 ऐन्द्राग्नपर्यन्तैः प्रचर्यारमत्यध्वर्युः …{Loading}…

ऐन्द्राग्नपर्यन्तैः प्रचर्यारमत्यध्वर्युः २८

29 अथ प्रतिप्रस्थाता पूर्वेण …{Loading}…

अथ प्रतिप्रस्थाता पूर्वेण सहावदानेन मारुत्याः सर्वां मेषीमवद्यति । उत्तरेण शमीपर्णकरीराणि २९

30 अथ प्रचर्यारमति …{Loading}…

अथ प्रचर्यारमति ३०

31 अथाध्वर्युः पूर्वेण सहावदानेन …{Loading}…

अथाध्वर्युः पूर्वेण सहावदानेन वारुण्याः सर्वं मेषमवद्यति । उत्तरेण शमीपर्णकरीराणि । अथ प्रचरति ३१

इति षष्ठी कण्डिका


  1. Cp. SB II.5.2.14-15. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. This view is not found in ŚB. Contrast ŚB II.5.2.19. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. ŚB II.5.2.15. ↩︎ ↩︎ ↩︎ ↩︎