०५

01 ततश्चतुर्षु मासेष्वाषाढ्यां श्रवणायां ...{Loading}...

ततश्चतुर्षु मासेष्वाषाढ्यां श्रवणायां वोदवसाय वरुणप्रघासैर्यजते १

02 प्ररूढकक्षे यष्टव्यमिति बह्वृचब्राह्मणम् ...{Loading}...

प्ररूढकक्षे यष्टव्यमिति बह्वृचब्राह्मणं भवति २

03 तस्य वैश्वदेववत्कल्पः ...{Loading}...

तस्य वैश्वदेववत्कल्पः ३

04 वेदौ कृत्वाग्रेण गार्हपत्यं ...{Loading}...

वेदौ कृत्वाग्रेण गार्हपत्यं समे प्राची वेदी भवतः ४

05 उत्तरामध्वर्युः करोति दक्षिणाम् ...{Loading}...

उत्तरामध्वर्युः करोति दक्षिणां प्रतिप्रस्थाता । उत्तरे विहारेऽध्वर्युश्चरति दक्षिणे प्रतिप्रस्थाता ५

06 उभयत्र कृत्स्नन् तन्त्रम् ...{Loading}...

उभयत्र कृत्स्नं तन्त्रम् ६

07 अपि पत्नीसंयाजाः ...{Loading}...

अपि पत्नीसंयाजाः ७

08 एकवत्सम्प्रैषः ...{Loading}...

एकवत्सम्प्रैषः ८

09 द्विवद्ब्रह्मानुजानाति ...{Loading}...

द्विवद्ब्रह्मानुजानाति ९

10 द्व्यङ्गुलन् त्र्यङ्गुलञ् चतुरङ्गुलम् ...{Loading}...

द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं पृथमात्रं रथवर्त्ममात्रं मीतामात्रं प्रादेशमात्रेण वा तिर्यगसम्भिन्ने वेदी भवतः १०

11 अन्तरा वेदी प्रतिप्रस्थातुः ...{Loading}...

अन्तरा वेदी प्रतिप्रस्थातुः सञ्चरः ११

12 अपरेणोत्तरां वेदिं स्तम्बयजुर्हरन्नाध्वर्युमभिपरिहरति ...{Loading}...

अपरेणोत्तरां वेदिं स्तम्बयजुर्हरन्नाध्वर्युमभिपरिहरति १२

13 उत्करे निवपति ...{Loading}...

उत्करे निवपति १३

14 समान उत्करः ...{Loading}...

समान उत्करः १४

15 पञ्चर्त्विजः ...{Loading}...

पञ्चर्त्विजः १५

16 यदेवाध्वर्युः करोति तत्प्रतिप्रस्थाता ...{Loading}...

यदेवाध्वर्युः करोति तत्प्रतिप्रस्थाता १६

17 यत्किञ्च वाचाकर्मीणमध्वर्युरेव तत्कुर्यात् ...{Loading}...

यत्किञ्च वाचाकर्मीणमध्वर्युरेव तत्कुर्यात् १७

18 युगपत्कालान्वा निगदान् ...{Loading}...

युगपत्कालान्वा निगदान् १८

19 साधारणद्रव्यांश्च संस्कारान् ...{Loading}...

साधारणद्रव्यांश्च संस्कारान् १९

20 प्रागुत्तरात्परिग्राहात्कृत्वैकस्फ्यया वेदी अनुसम्भिनत्ति ...{Loading}...

प्रागुत्तरात्परिग्राहात्कृत्वैकस्फ्यया वेदी अनुसम्भिनत्ति । दक्षिणस्या उत्तरायै श्रोणेः प्रक्रम्या दक्षिणादंसादुत्तरस्याः २०

21 उत्तरस्यां वेद्याम् पशुबन्धवदुत्तरवेदिमुपवपति ...{Loading}...

उत्तरस्यां वेद्यां पशुबन्धवदुत्तरवेदिमुपवपति २१

22 काले पशुबन्धवद्गार्हपत्यादग्नी प्रणयतः ...{Loading}...

काले पशुबन्धवद्गार्हपत्यादग्नी प्रणयतः २२

23 नोद्यतहोमौ जुहुतः ...{Loading}...

नोद्यतहोमौ जुहुतः २३

24 अन्तरा वेदी प्रतिप्रस्थाता ...{Loading}...

अन्तरा वेदी प्रतिप्रस्थाता प्रतिपद्यते । उत्तरेणोत्तरां वेदिमध्वर्युः २४

25 पूवोऽध्वर्युरुत्तरवेद्यामग्निम् प्रतिष्ठापयति जघन्यः ...{Loading}...

पूवोऽध्वर्युरुत्तरवेद्यामग्निं प्रतिष्ठापयति । जघन्यः प्रतिप्रस्थाता दक्षिणस्याम् २५

26 अग्नीनन्वाधाय पृथक् शाखे ...{Loading}...

अग्नीनन्वाधाय पृथक् शाखे आहरतः २६

27 तथेध्माबर्हिषी ...{Loading}...

तथेध्माबर्हिषी २७

28 मारुत्याः प्रतिप्रस्थाता वत्सानपाकरोति ...{Loading}...

मारुत्याः प्रतिप्रस्थाता वत्सानपाकरोति । वारुण्या अध्वर्युः २८

29 शमीमय्यो हिरण्मय्यो वा ...{Loading}...

शमीमय्यो हिरण्मय्यो वा स्रुचो भवन्ति २९

30 यथादेवतं सायन्दोहौ दोहयतः ...{Loading}...

यथादेवतं सायन्दोहौ दोहयतः ३०

31 सद्यस्काला वा वरुणप्रघासाः ...{Loading}...

सद्यस्काला वा वरुणप्रघासाः ३१

32 एवं सति लौकिकेन ...{Loading}...

एवं सति लौकिकेन दध्नामिक्षाकर्म स्यात् ३२

33 प्रातर्दोहविकारमेक आमिक्षापयस्यमाहुः ...{Loading}...

प्रातर्दोहविकारमेक आमिक्षापयस्यमाहुः ३३

34 निर्वपणकाल आग्नेयमष्टाकपालमिति नवोत्तराणि ...{Loading}...

निर्वपणकाल आग्नेयमष्टाकपालमिति नवोत्तराणि हवींषि निर्वपति ३४

35 सर्वे यवा भवन्ति ...{Loading}...

सर्वे यवा भवन्ति ३५

36 अपि वा पौष्णः ...{Loading}...

अपि वा पौष्णः करम्भपात्राणि मेषाविति यवानां व्रीहीणामितराणि ३६

37 एतस्मिन्काले प्रतिप्रस्थाता तूष्णीङ् ...{Loading}...

एतस्मिन्काले प्रतिप्रस्थाता तूष्णीं करम्भपात्रार्थान्यवान्निर्वपति ३७

38 यजुषाध्वर्युर्मेषार्थान् मेष्यर्थान्प्रतिप्रस्थाता ...{Loading}...

यजुषाध्वर्युर्मेषार्थान् । मेष्यर्थान्प्रतिप्रस्थाता ३८

39 तयोरामिक्षावद्दैवतम् ...{Loading}...

तयोरामिक्षावद्दैवतम् ३९

40 आमपेषाणाम् पत्नी करम्भपात्राणि ...{Loading}...

आमपेषाणां पत्नी करम्भपात्राणि करोति ४०

41 यावन्तो यजमानस्यामात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानि ...{Loading}...

यावन्तो यजमानस्यामात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानि ४१

42 आमपेषाणाम् भेषप्रतिकृती भवतः ...{Loading}...

आमपेषाणां भेषप्रतिकृती भवतः ४२

43 मेषमध्वर्युः करोति मेषीम् ...{Loading}...

मेषमध्वर्युः करोति मेषीं प्रतिप्रस्थाता ४३

इति पञ्चमी कण्डिका


  1. Cp. VIII.1.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. This ritual is not to be done in the residence of the sacrificer but rather at some other place. For that, fires are to be taken mystically in the churning sticks and then produced out of them by means of churning. For this Sūtra cf. ŚB II.5.2.48. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎