०३

01 अष्टावाद्याः पाशुकाः परिषवर्जम् …{Loading}…

अष्टावाद्याः पाशुकाः परिषवर्जम् १

02 उत्तमेनोत्तमम् …{Loading}…

उत्तमेनोत्तमम् २

03 देवान्यजेति प्रथमं सम्प्रेष्यति …{Loading}…

देवान्यजेति प्रथमं सम्प्रेष्यति । यज यजेतीतरान् ३

04 संवत्सरीणां स्वस्तिमाशास्ते दिव्यन् …{Loading}…

संवत्सरीणां स्वस्तिमाशास्ते । दिव्यं धामाशास्त इति सूक्तवाकस्याशिःषु होतानुवर्तयते ४

05 एवं यजमानो जपति …{Loading}…

एवं यजमानो जपति । आशास इति मन्त्रं सन्नमति ५

06 परिधीन्प्रहृत्य संस्रावान्तङ् कृत्वा …{Loading}…

परिधीन्प्रहृत्य संस्रावान्तं कृत्वा वाजिनपात्र उपस्तीर्यान्तर्वेदि बर्हिरनुविषिञ्चन्वाजिनं गृह्णाति ६

07 नाभिघारयति …{Loading}…

नाभिघारयति ७

08 वाजिभ्योऽनुब्रूहि वाजिनो यजेति …{Loading}…

वाजिभ्योऽनुब्रूहि वाजिनो यजेति सम्प्रैषौ । वषट्कृते चमसेन जुहोति । स्रुचा वानुविषिच्यमानयानुवषट्कृते च ८

09 ऊर्ध्वज्ञुरासीनो ऽनवानं होता …{Loading}…

ऊर्ध्वज्ञुरासीनो ऽनवानं होता यजति ९

10 वाजिनस्याग्ने वीहीत्यनुयजति …{Loading}…

वाजिनस्याग्ने वीहीत्यनुयजति १०

11 त्रयाणां ह वै …{Loading}…

त्रयाणां ह वै हविषां स्विष्टकृतेन समवद्यति सोमस्य वाजिनस्य घर्मस्येति ११

12 उद्रेकेण पशुबन्धवद्दिशः प्रतीज्यान्तर्वेदि …{Loading}…

उद्रेकेण पशुबन्धवद्दिशः प्रतीज्यान्तर्वेदि शेषं सर्वे समुपहूय भक्षयन्ति १२

13 असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते …{Loading}…

असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते १३

14 उपहूत इति प्रतिवचनः …{Loading}…

उपहूत इति प्रतिवचनः १४

15 होता प्रथमो भक्षयति …{Loading}…

होता प्रथमो भक्षयति यजमान उत्तमः । यजमानः प्रथमश्चोत्तमश्चेत्येके १५

16 वाजिनाम् भक्षो अवतु …{Loading}…

वाजिनां भक्षो अवतु वाजो अस्माँ रेतः सिक्तममृतं बलाय । स न इन्द्रियं द्रविणं दधातु मा रिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिः सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामीति भक्षयति १६

17 पशुवत्समिष्टायजूंषि …{Loading}…

पशुवत्समिष्टायजूंषि १७

18 सिद्धमिष्टिः सन्तिष्ठते …{Loading}…

सिद्धमिष्टिः सन्तिष्ठते १८

इति तृतीया कण्डिका


  1. viz. barhis, duraḥ, uṣāsānaktā, joṣṭrī, ūrjāhutī, daivyā hotārā, tisro devīḥ, narāśaṁsa; cp. Āśvaśs II.16.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. There is no Maitrāvaruṇa here. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TB I.6.3.9; cp. also Ks XXXVI.4. ↩︎ ↩︎ ↩︎ ↩︎

  4. See the Sūtra 10 below. ↩︎