०१

01 अक्षय्यं ह वै ...{Loading}...

अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति १

02 फाल्गुन्याम् पौर्णमास्याञ् चैत्र्यां ...{Loading}...

फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजते २

03 पूर्वस्मिन्पर्वणि पञ्चहोतारम् मनसानुद्रुत्याहवनीये ...{Loading}...

पूर्वस्मिन्पर्वणि पञ्चहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वान्वारम्भणीयामिष्टिं निर्वपति वैश्वानरं द्वादशकपालं पार्जन्यं च चरुम् ३

04 वैश्वानरो न ऊत्या ...{Loading}...

वैश्वानरो न ऊत्या पृष्टो दिवीति वैश्वानरस्य याज्यानुवाक्ये । पर्जन्याय प्रगायत दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु । अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसाविवास । कनिक्रदद्वृषभो जीरदानू रेतो दधात्वोषधीषु गर्भमिति पार्जन्यस्य । हिरण्य वैश्वानरे ददाति धेनुं पार्जन्ये । सिद्धमिष्टिः सन्तिष्ठते ४

05 प्राचीनप्रवणे वैश्वदेवेन यजते ...{Loading}...

प्राचीनप्रवणे वैश्वदेवेन यजते ५

06 पशुबन्धवद्गार्हपत्यादग्निम् प्रणयन्नोद्यतहोमञ् जुहोति ...{Loading}...

पशुबन्धवद्गार्हपत्यादग्निं प्रणयन्नोद्यतहोमं जुहोति ६

07 ऊर्णावन्तम् प्रथमः सीद ...{Loading}...

ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञायाहवनीयायतन ऊर्णास्तुकां निधाय तस्यामग्निं प्रतिष्ठापयति ७

08 नानुत्तरवेदिके पाशुकम् प्रणयनं ...{Loading}...

नानुत्तरवेदिके पाशुकं प्रणयनं विद्यत इत्यपरम् ८

09 अग्नीनन्वाधाय शाखामाहृत्य वैश्वदेव्या ...{Loading}...

अग्नीनन्वाधाय शाखामाहृत्य वैश्वदेव्या आमिक्षाया वत्सानपाकरोति ९

10 प्रसूमयम् बर्हिः प्रस्तरश्च ...{Loading}...

प्रसूमयं बर्हिः प्रस्तरश्च १०

11 त्रेधा सन्नद्धम् पुनरेकधा ...{Loading}...

त्रेधा सन्नद्धं पुनरेकधा ११

12 तस्मिन्मन्त्रः ...{Loading}...

तस्मिन्मन्त्रः १२

13 तथेध्मः ...{Loading}...

तथेध्मः १३

14 त्रयोविंशतिदारुः ...{Loading}...

त्रयोविंशतिदारुः १४

15 त्रीन्कलापान्सन्नह्यैकधा पुनः सन्नह्यति ...{Loading}...

त्रीन्कलापान्सन्नह्यैकधा पुनः सन्नह्यति १५

16 पूर्ववद्वैश्वदेव्याः सायन्दोहन् दोहयति ...{Loading}...

पूर्ववद्वैश्वदेव्याः सायन्दोहं दोहयति १६

इति प्रथमा कण्डिका


  1. Cp ŚB II.6.3.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TĀ III.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TB II.2.2.2-3. ↩︎ ↩︎ ↩︎

  4. This offering is to be performed only by those who are going to perform the Cāturmāsya-sacrifices for the first time. ↩︎ ↩︎