२८

01 इष्टिविधो वा अन्यः ...{Loading}...

इष्टिविधो वा अन्यः पशुबन्धः सोमविधोऽन्यः । स यत्रैतदपः प्रणयति पूर्णपात्रं निनयति विष्णुक्रमान्क्रामति स इष्टिविधोऽतोऽन्यः सोमविध इति वाजसनेयकम् १

02 यूपं यजमान उपतिष्ठते ...{Loading}...

यूपं यजमान उपतिष्ठते नमः स्वरुभ्यः सन्नान्मावगातापश्चाद्दघ्वान्नं भूयासम् । शृङ्गाणीवेच्छृङ्गिणां सन्ददृश्रिरे चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवांसो नमः सखिभ्यः सन्नान्मावगात । आशासानः सुवीर्यमिति च २

03 उपस्थाय यज्ञ शञ् ...{Loading}...

उपस्थाय यज्ञ शं च म इति जपति ३

04 आहुत्यै वा एतं ...{Loading}...

आहुत्यै वा एतं वनस्पतिभ्यः प्रच्यावयन्त्युपयज्य मनुष्याः ह्प्रयान्ति । यूपो वै यज्ञस्य दुरिष्टमामुञ्चते । यद्यूपमुपस्पृशेद्दुरिष्टं यज्ञस्यामुञ्चेत्तमभिमन्त्रयेत वायवेष ते वायवित्येकम् । वायवेतौ ते वायविति द्वौ । वायवेते ते वायविति बहून् ४

05 ऐन्द्राग्नी निरूढपशुबन्धः सौर्यः ...{Loading}...

ऐन्द्राग्नी निरूढपशुबन्धः सौर्यः प्राजापत्यो वा ५

06 तेन संवत्सरेसंवत्सरे यजेत ...{Loading}...

तेन संवत्सरेसंवत्सरे यजेत । षट्सुषट्सु मासेष्वित्वेके ६

07 ऋतुव्यावृत्तौ सूयवस आवृत्तिमुखआवृत्तिमुखे ...{Loading}...

ऋतुव्यावृत्तौ सूयवस आवृत्तिमुखआवृत्तिमुखे वा ७

08 मांसीयन्ति ह वा ...{Loading}...

मांसीयन्ति ह वा अग्नयोऽजुह्वतो यजमानस्य । ते यजमानमेव ध्यायन्ति । यजमानं सङ्कल्पयन्ति । पचन्ति ह वा अन्येष्वग्निषु वृथामांसम् । अथैतेषां नान्या मांसाशा विद्यते । यस्यो चैते भवन्ति तं ततो नानीजानं पशुना संवत्सरोऽतीयात् । आयुष्यो ह वा अस्यैष आत्मनिष्क्रयण इति वाजसनेयकं भवति भवति ८

इत्यष्टाविंशी कण्डिका इत्यष्टमा कण्डिका इति सप्तमः प्रश्नः


  1. i.e. Nirūḍhapaśubandha. An animal-sacrifice performed independently of a Soma-sacrifice. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See I.16.1-11. ↩︎ ↩︎

  3. See IV.14.3. ↩︎

  4. see IV.14.6. ↩︎

  5. Cp. ŚB XI.7.2.1. ↩︎

  6. An animal-sacrifice forming a part of a Soma-sacrifice. ↩︎