२७

01 प्रथमेनाद्यांश्चतुरो दशमञ् च ...{Loading}...

प्रथमेनाद्यांश्चतुरो दशमं च । द्वितीयेन प्राग्वनस्पतेः । उत्तमेन शेषम् १

02 उत्तरयोर्विकारेषुभौ होतारञ् चोदयतोऽध्वर्युर्मैत्रावरुणश्च ...{Loading}...

उत्तरयोर्विकारेषुभौ होतारं चोदयतोऽध्वर्युर्मैत्रावरुणश्च यजेति २

03 अत्र स्वरोरञ्जनमेके समामनन्ति ...{Loading}...

अत्र स्वरोरञ्जनमेके समामनन्ति ३

04 प्रत्याक्रम्य जुह्वां स्वरुमवधायानूयाजान्ते ...{Loading}...

प्रत्याक्रम्य जुह्वां स्वरुमवधायानूयाजान्ते जुहोति द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व स्वाहेति ४

05 समानमा प्रत्याश्रावणात् ...{Loading}...

समानमा प्रत्याश्रावणात् ५

06 सूक्तवाकप्रैषो विक्रियते ...{Loading}...

सूक्तवाकप्रैषो विक्रियते ६

07 तम् मैत्रावरुणो ब्रूयादग्निमद्य ...{Loading}...

तं मैत्रावरुणो ब्रूयादग्निमद्य होतारमवृणीतेति ७

08 ध्रुवावर्जञ् चतसृभिः परिधीनभिजुहोति ...{Loading}...

ध्रुवावर्जं चतसृभिः परिधीनभिजुहोति ८

09 दक्षिणेन विहारञ् जाघनीं ...{Loading}...

दक्षिणेन विहारं जाघनीं हृत्वा तया पत्नीः संयाजयन्ति ९

10 आज्येन सोमत्वष्टाराविष्ट्वोत्तानायै जाघन्यै ...{Loading}...

आज्येन सोमत्वष्टाराविष्ट्वोत्तानायै जाघन्यै देवानां पत्नीभ्योऽवद्यति । नीच्या अग्नये गृहपतये १०

11 उत्तानायै होत्र इडामवद्यति ...{Loading}...

उत्तानायै होत्र इडामवद्यति नीच्या अग्नीधे ११

12 ताम् पत्न्यै प्रयच्छति ...{Loading}...

तां पत्न्यै प्रयच्छति तां साध्वर्यवेऽन्यस्मै वा ब्राह्मणाय १२

13 बाहुं शमित्रे ...{Loading}...

बाहुं शमित्रे १३

14 तं स ब्राह्मणाय ...{Loading}...

तं स ब्राह्मणाय यद्यब्राह्मणो भवति १४

15 यज्ञ यज्ञङ् गच्छेति ...{Loading}...

यज्ञ यज्ञं गच्छेति त्रीणि समिष्टयजूंषि हुत्वानुपस्पृशन्हृदयशूलमुदङ् परेत्यासञ्चरेऽप उपनिनीय शुष्कार्द्रयोः संधावुद्वासयति शुगसीति द्वेष्यं मनसा ध्यायन् १५

16 सुमित्रा न आप ...{Loading}...

सुमित्रा न आप ओषधय इति तस्मिंश्चात्वाले वा सहपत्नीका मार्जयित्वा धाम्नोधाम्नो राजन्नुदुत्तममित्यादित्यमुपस्थायैधोऽस्येधिषीमहीत्याहवनीये समिध आधायापो अन्वचारिषमित्युपतिष्ठन्ते १६

इति सप्तविंशी कण्डिका


  1. In the basic paradigm there are three after-offerings and the total number of formulae to be recited after each after-offering is also three viz. TS 1.6.4.a-c. See VI. 12.1 The first formula is to be used after the 1,2,3,4, and 10th after-offering in the Animal sacrifice; the second after 5,6,7,8; the third after 9th and 11th after-offering. The ninth after-offering is for Vanaspati. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS III.9.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.3.11.e. ↩︎

  4. See VII.23.11. ↩︎

  5. Cf. TS VI.4.1.5; cp.MS III. 10.7. ↩︎