२६

01 अत्रेडाया निरवदानमेके समामनन्ति …{Loading}…

अत्रेडाया निरवदानमेके समामनन्ति १

02 अवान्तरेडामवद्यति …{Loading}…

अवान्तरेडामवद्यति २

03 मेद उपस्तीर्य मेदसाभिघारयति …{Loading}…

मेद उपस्तीर्य मेदसाभिघारयति ३

04 यङ् कामयेतापशुः स्यादित्यमेदस्कन् …{Loading}…

यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा इत्युक्तम् ४

05 उपहूताम् मैत्रावरुणषष्ठा भक्षयन्ति …{Loading}…

उपहूतां मैत्रावरुणषष्ठा भक्षयन्ति । प्रतिप्रस्थाता सप्तमः ५

06 वनिष्ठुमग्नीधे षडवत्तं सम्पादयति …{Loading}…

वनिष्ठुमग्नीधे षडवत्तं सम्पादयति ६

07 अध्यूध्नीं होत्रे हरति …{Loading}…

अध्यूध्नीं होत्रे हरति ७

08 अग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधींश्चाग्निञ् …{Loading}…

अग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधींश्चाग्निं च सकृत्सकृत्सम्मृड्ढीति सम्प्रेष्यति ८

09 आग्नीध्रादौपयजानङ्गारानाहरति होत्रीय उपयजति …{Loading}…

आग्नीध्रादौपयजानङ्गारानाहरति । होत्रीय उपयजति ९

10 शामित्रान्निरूढपशुबन्ध उत्तरस्यां वेदिश्रोण्याम् …{Loading}…

शामित्रान्निरूढपशुबन्ध उत्तरस्यां वेदिश्रोण्याम् १०

11 गुदकाण्डमेकादशधा तिर्यक् छित्त्वासम्भिन्दन्नपर्यावर्तयन्ननूयाजानां …{Loading}…

गुदकाण्डमेकादशधा तिर्यक् छित्त्वासम्भिन्दन्नपर्यावर्तयन्ननूयाजानां वषट्कृतेवषट्कृत एकैकं गुदकाण्डं प्रतिप्रास्थाता हस्तेन जुहोति समुद्रं गच्छ स्वाहेत्येतैः प्रतिमन्त्रम् ११

12 सर्वाणि हुत्वाद्भ्यस्त्वौषधीभ्य इति …{Loading}…

सर्वाणि हुत्वाद्भ्यस्त्वौषधीभ्य इति बर्हिषि लेपं निमृज्य मनो मे हार्दि यच्छेति जपति । पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेनैकादशानूयाजान्यजति १२

13 देवेभ्यः प्रेष्येति प्रथमं …{Loading}…

देवेभ्यः प्रेष्येति प्रथमं सम्प्रेष्यति । प्रेष्य प्रेष्येतीतरान् १३

14 तान्यजमानः प्राकृतैरनुमन्त्रयते …{Loading}…

तान्यजमानः प्राकृतैरनुमन्त्रयते १४

इति षड्विंशी कण्डिका


  1. Contrast VII.24.10-12. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ŚB III.8.4.10. ↩︎ ↩︎

  3. i.e. he holds the container of the clotted ghee below the Juhū. ↩︎

  4. There are eleven fore-offerings, eleven after-offerings and eleven by-offerings in animal-sacrifice: Cf. MS III.10.4. ↩︎ ↩︎