२५

01 अपान् त्वौषधीनां रसङ् ...{Loading}...

अपां त्वौषधीनां रसं गृह्णामीति वसाहोमहवन्यां वसाहोमं गृह्णाति १

02 स्वधितिना धाराञ् छिनत्ति ...{Loading}...

स्वधितिना धारां छिनत्ति २

03 द्विः पञ्चावत्तिनः ...{Loading}...

द्विः पञ्चावत्तिनः ३

04 श्रीरसीति पार्श्वेन वसाहोमम् ...{Loading}...

श्रीरसीति पार्श्वेन वसाहोमं प्रयौति ४

05 वातस्य त्वा ध्रज्या ...{Loading}...

वातस्य त्वा ध्रज्या इति तेनैवापिदधाति । स्वधितिना वा प्रयौति । स्वधितिनापिदधातीत्येके ५

06 अथ यन्न शीर्ष्णोऽवद्यति ...{Loading}...

अथ यन्न शीर्ष्णोऽवद्यति नांसयोर्नाणूकस्य नापरसक्थ्योरनवदानीयानि ६

07 तानि शृतैः सन्निधाय ...{Loading}...

तानि शृतैः सन्निधाय सम्मृशत्यैन्द्रः प्राणो अङ्गेअङ्ग इति ७

08 अथ हविषा प्रचरति ...{Loading}...

अथ हविषा प्रचरति ८

09 इन्द्राग्निभ्याञ् छागस्य हविषोऽनुब्रूहीन्द्राग्निभ्याञ् ...{Loading}...

इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रूहीन्द्राग्निभ्यां छागस्य हविषः प्रेष्येति सम्प्रैषौ ९

10 याज्याया अर्धर्चे प्रतिप्रस्थाता ...{Loading}...

याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावानः पिबतेति १०

11 उद्रेकेण दिशः प्रदिश ...{Loading}...

उद्रेकेण दिशः प्रदिश इति प्रतिदिशं जुहोति । मध्ये पञ्चमेन ११

12 प्राञ्चमुत्तमं संस्थाप्य नमो ...{Loading}...

प्राञ्चमुत्तमं संस्थाप्य नमो दिग्भ्य इत्युपतिष्ठते १२

13 वषट्कृते जुहोति ...{Loading}...

वषट्कृते जुहोति १३

14 अत्र वा दिशः ...{Loading}...

अत्र वा दिशः प्रति यजेत् । उपरिष्टाद्वा वनस्पतेः स्विष्टकृतो वा १४

15 प्रत्याक्रम्य जुह्वामुपस्तीर्य सकृत्पृषडाज्यस्योपहत्य ...{Loading}...

प्रत्याक्रम्य जुह्वामुपस्तीर्य सकृत्पृषडाज्यस्योपहत्य द्विरभिघार्य वनस्पतये नुब्रूहि वनस्पतये प्रेष्येति सम्प्रैषौ । वषट्कृते जुहोति १५

16 स्विष्टकृद्वद्यजमानोऽनुमन्त्रयते ...{Loading}...

स्विष्टकृद्वद्यजमानोऽनुमन्त्रयते १६

17 उपर्याहवनीये जुह्वामौपभृतानि विपर्यस्यन्नाहाग्नये ...{Loading}...

उपर्याहवनीये जुह्वामौपभृतानि विपर्यस्यन्नाहाग्नये स्विष्टकृते ऽनुब्रूह्यग्नये स्विष्टकृते प्रेष्येति सम्प्रैषौ १७

18 वषट्कृते हुत्वा प्रत्याक्रम्यायतने ...{Loading}...

वषट्कृते हुत्वा प्रत्याक्रम्यायतने स्रुचौ सादयति १८

इति पञ्चविंशी कण्डिका


  1. See VII.8.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB VI.3.11.1 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. According to ŚB III.8.3.24, one can stir either by means of the knife or by means of the thoracic wall. ↩︎

  4. Cf. MS III.10.4. ↩︎ ↩︎