२४

01 मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति ...{Loading}...

मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति १

02 हृदयस्याग्रेऽवद्यति अथ जिह्वाया ...{Loading}...

हृदयस्याग्रेऽवद्यति । अथ जिह्वाया अथ वक्षसो याथाकामीतरेषाम् २

03 मध्यतो गुदस्यावद्यतीत्युक्त ...{Loading}...

मध्यतो गुदस्यावद्यतीत्युक्त ३

04 यथोद्धृतं वा ...{Loading}...

यथोद्धृतं वा ४

05 दैवतानान् द्विर्द्विरवदाय जुह्वामवदधाति ...{Loading}...

दैवतानां द्विर्द्विरवदाय जुह्वामवदधाति । उपभृति सौविष्टकृतानां सकृत्सकृत् ५

06 गुदन् त्रैधं विभज्य ...{Loading}...

गुदं त्रैधं विभज्य स्थविमदुपयड्भ्यो निधाय मध्यमं द्वैधं विभज्य दैवतेष्ववदधाति । अणिमत्सौविष्टकृतेषु ६

07 अपि वा द्वैधं ...{Loading}...

अपि वा द्वैधं विभज्य स्थविमदुपयड्भ्यो निधायेतरत्त्रैधं विभज्य मध्यमं द्वैधं विभज्य दैवतेष्ववदधाति । अणिमत्सौविष्टकृतेषु स्थविष्ठमिडायाम् ७

08 त्रधा मेदोऽवद्यति द्विभागं ...{Loading}...

त्रधा मेदोऽवद्यति द्विभागं स्रुचोस्तृतीयं समवत्तधात्याम् ८

09 यूषे मेदोऽवधाय मेदसा ...{Loading}...

यूषे मेदोऽवधाय मेदसा स्रुचौ प्रावृत्य हिरण्यशकलावुपरिष्टात्कृत्वाभिघारयति ९

10 समवत्तधान्यां षडाद्यानीडामवद्यति वनिष्ठुं ...{Loading}...

समवत्तधान्यां षडाद्यानीडामवद्यति वनिष्ठुं सप्तमम् । षड्भ्यो वा वनिष्ठोः सप्तमात् १०

11 अनस्थिभिरिडां वर्धयति ...{Loading}...

अनस्थिभिरिडां वर्धयति ११

12 क्लोमानम् प्लीहानम् पुरीततमित्यन्ववधाय ...{Loading}...

क्लोमानं प्लीहानं पुरीततमित्यन्ववधाय यूष्णोपसिच्याभिघारयति १२

इति चतुर्विंशी कण्डिका इति सप्तमः पटलः


  1. Cf. TS VI.3.10.3. The Maitrāvaruṇa recites R̥V VI.1.1-13. Cf. AB II.10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See VII.22.6. ↩︎ ↩︎

  3. Cf. MS III. 10.3. ↩︎