२२

01 पशुपुरोडाशस्य पात्रसंसादनादि कर्म …{Loading}…

पशुपुरोडाशस्य पात्रसंसादनादि कर्म प्रतिपद्यते १

02 यथार्थम् पात्रयोगः …{Loading}…

यथार्थं पात्रयोगः २

03 निर्वपणकाले व्रीहिमयम् पशुपुरोडाशन् …{Loading}…

निर्वपणकाले व्रीहिमयं पशुपुरोडाशं निर्वपत्येकादशकपालं द्वादशकपालं वा ३

05 हविष्कृता वाचं विसृज्य …{Loading}…

हविष्कृता वाचं विसृज्य पशुं विशास्ति ५

06 हृदयञ् जिह्वा वक्षो …{Loading}…

हृदयं जिह्वा वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानि । दक्षिणं दोः सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि । क्लोमानं लीहानं पुरीततं वनिष्ठुमध्यूध्नीं मेदो जाघनीमित्युद्धरति ६

07 गुदम् मा निर्व्लेषीरिति …{Loading}…

गुदं मा निर्व्लेषीरिति सम्प्रेष्यति ७

08 मा विपर्यास्त इत्यर्थो …{Loading}…

मा विपर्यास्त इत्यर्थो भवति ८

09 उदक् पवित्रे कुम्भ्याम् …{Loading}…

उदक् पवित्रे कुम्भ्यां पशुमवधाय शूले प्रणीक्ष्य हृदयं शामित्रे श्रपयति ९

10 अवहननादि कर्म प्रतिपद्यते …{Loading}…

अवहननादि कर्म प्रतिपद्यते १०

11 वपया प्रचर्य पुरोडाशेन …{Loading}…

वपया प्रचर्य पुरोडाशेन प्रचरति । शृते वा पशौ ११

12 इन्द्राग्निभ्याम् पुरोडाशस्यानुब्रूहीन्द्राग्निभ्याम् पुरोडाशस्य …{Loading}…

इन्द्राग्निभ्यां पुरोडाशस्यानुब्रूहीन्द्राग्निभ्यां पुरोडाशस्य प्रेष्येति सम्प्रैषौ । इन्द्राग्निभ्यां पुरोडाशस्यावदीयमानस्यानुब्रूहीन्द्राग्निभ्यां पुरोडाशस्य प्रेष्येति वा १२

13 अग्नयेऽनुब्रूह्यग्नये प्रेष्येति स्विष्टकृतः …{Loading}…

अग्नयेऽनुब्रूह्यग्नये प्रेष्येति स्विष्टकृतः सम्प्रैषौ १३

इति द्वाविंशी कण्डिका


  1. Thus I.15.6-14. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Not barley as is allowed elsewhere. For this cf. MS III. 10.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See VII.25.17. This limb is meant for Ida: see VII.24.10-12. ↩︎ ↩︎