२१

01 इन्द्राग्निभ्याञ् छागस्य वपाया ...{Loading}...

इन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहीन्द्राग्निभ्यां छागस्य वपाया मेदसः प्रेष्येति सम्प्रैषौ १

02 जातवेदो वपया गच्छ ...{Loading}...

जातवेदो वपया गच्छ देवानिति वषट्कृते हुत्वा प्रत्याक्रम्य देवेभ्यः स्वाहेत्युत्तरं परिवप्यं हुत्वा वपोद्धरणमभिघारयत्युत्तरतस्तिष्ठन् २

03 प्रतिप्रस्थाताहवनीये वपाश्रपणी प्रहरति ...{Loading}...

प्रतिप्रस्थाताहवनीये वपाश्रपणी प्रहरति स्वाहोर्ध्वनभसं मारुतं गच्छतमिति प्राचीं द्विशूलां प्रतीचीमेकशूलाम् । एतद्वा विपरीतम् ३

04 अथैने अध्वर्युः संस्रावेणाभिजुहोति ...{Loading}...

अथैने अध्वर्युः संस्रावेणाभिजुहोति ४

05 अत्र यजमानो वरन् ...{Loading}...

अत्र यजमानो वरं ददात्यनद्धाहं तिस्रो वा धेनूस्तिस्रो वा दक्षिणाः ५

06 समुत्क्रम्य सहपत्नीकाः ह्पञ्चभिश्चात्वाले ...{Loading}...

समुत्क्रम्य सहपत्नीकाः ह्पञ्चभिश्चात्वाले मार्जयन्ते । आपो हि ष्ठा मयोभुव इति तिस्रः । इदमापः प्रवहतावद्यं च मलं च यत् । यद्वाभिदुद्रोहानृतं यद्वा शेपे अभीरुणम् । आपो मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः । निर्मा मुञ्चामि शपथान्निर्मा वरुणादधि । निर्मा यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषादिति ६

इत्येकविंशी कण्डिका इति षष्ठः कण्डिका


  1. The Maitrāvaruṇa then recites R̥V VI.60.3; see Āśvaśs III 7.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The Maitrāvaruṇa orders with the order mentioned in MS TV 13.5. The Hotr̥ recites R̥V VIII.93.1; see Āśvaśs III.7.13. ↩︎ ↩︎ ↩︎ ↩︎

  3. See VII.20.9. ↩︎ ↩︎ ↩︎

  4. See VII.19.3. ↩︎ ↩︎