२०

01 वायो वीहि स्तोकानामिति …{Loading}…

वायो वीहि स्तोकानामिति बर्हिषोऽग्रमधस्ताद्वपाया उपास्यति १

02 त्वामु ते दधिरे …{Loading}…

त्वामु ते दधिरे हव्यवाहमिति स्रुवेण वपामभिजुहोति २

03 प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहीति …{Loading}…

प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहीति सम्प्रेष्यति ३

04 अलोहिनीं सुशृताङ् कृत्वा …{Loading}…

अलोहिनीं सुशृतां कृत्वा सुपिप्पला ओषधीः कृधीति दक्षिणस्यां वेदिश्रोण्यां बर्हिषि लक्सशाखायामासाद्य प्रयुता द्वेषांसीति वपाश्रपणी प्रवृह्य निधाय घृतवति शब्दे जुहूपभृतावादाय दक्षिणातिक्रम्याश्राव्य प्रत्याश्राविते सम्प्रेष्यति स्वाहाकृतीभ्यः प्रेष्य स्वाहाकृतिभ्यः प्रेष्येति वा ४

05 वषट्कृते हुत्वा प्रत्याक्रम्य …{Loading}…

वषट्कृते हुत्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्य पृषदाज्यमभिघारयत्यथ वपाम् । एतद्वा विपरीतम् ५

06 नोपभृतम् …{Loading}…

नोपभृतम् ६

07 आज्यभागौ यजति …{Loading}…

आज्यभागौ यजति ७

08 तौ न पशौ …{Loading}…

तौ न पशौ करोति । न सोम इत्येके ८

09 स्वाहा देवेभ्य इति …{Loading}…

स्वाहा देवेभ्य इति पूर्वं परिवप्यं हुत्वा जुह्वामुपस्तीर्य हिरण्यशकलमवधाय कृत्स्नां वपामवदाय हिरण्यशकलमुपरिष्टात्कृत्वाभिघारयति ९

10 एवम् पञ्चावत्ता भवति …{Loading}…

एवं पञ्चावत्ता भवति १०

11 चतुरवत्तिनोऽपि पञ्चावत्तैव स्यात् …{Loading}…

चतुरवत्तिनोऽपि पञ्चावत्तैव स्यात् ११

इति विंशी कण्डिका


  1. TS I.3.9.p. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See VII.18.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS VI.3.9.5. ↩︎ ↩︎ ↩︎

  4. MS 1.2.16; KS III.6. ↩︎ ↩︎

  5. See II.17.1. ↩︎

  6. See TS VI.3.7.5. ↩︎