१९

01 इषे त्वेति वपामुत्खिद्य ...{Loading}...

इषे त्वेति वपामुत्खिद्य घृतेन द्यावापृथिवी प्रोर्ण्वाथामिति वपया द्विशूलां प्रच्छाद्योर्जे त्वेति तनिष्ठेऽन्तत एकशूलयोपतृणत्ति १

02 देवेभ्यः कल्पस्वेत्यभिमन्त्र्य देवेभ्यः ...{Loading}...

देवेभ्यः कल्पस्वेत्यभिमन्त्र्य देवेभ्यः शून्धस्वेत्यद्भिरवोक्ष्य देवेभ्यः शूम्भस्वेति स्वधितिना वपां निमृज्याच्छिन्नो रायः सुवीर इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामीत्युत्कृन्तति २

03 मुष्टिना शमिता वपोद्धरणमपिधायास्त ...{Loading}...

मुष्टिना शमिता वपोद्धरणमपिधायास्त आ वपाया होमात् ३

04 प्रत्युष्टं रक्षः प्रत्युष्टा ...{Loading}...

प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इति शामित्रे वपां प्रतितप्य नमः सूर्यस्य सन्दृश इत्यादित्यमुपस्थायोर्वन्तरिक्षमन्विहीत्यभिप्रव्रजति ४

05 उल्मुकैकदेशमादायाग्नीध्रः पूर्वः प्रतिपद्यते ...{Loading}...

उल्मुकैकदेशमादायाग्नीध्रः पूर्वः प्रतिपद्यते ५

06 वपाश्रपणी पुनरन्वारभते यजमानः ...{Loading}...

वपाश्रपणी पुनरन्वारभते यजमानः ६

07 उल्मुकैकदेशमाहवनीये प्रत्यपिसृजति ...{Loading}...

उल्मुकैकदेशमाहवनीये प्रत्यपिसृजति ७

08 निर्दग्धं रक्षो निर्दग्धा ...{Loading}...

निर्दग्धं रक्षो निर्दग्धा अरातय इत्याहवनीयस्यान्तमेऽङ्गारे वपां निकूड्यान्तरा यूपमाहवनीयं च दक्षिणातिहृत्य प्रतिप्रस्थात्रे प्रयच्छति ८

09 तान् दक्षिणत आसीनः ...{Loading}...

तां दक्षिणत आसीनः प्रतिप्रस्थाताहवनीये श्रपयति ९

इत्येकोनविंशी कण्डिका


  1. TS I.3.9.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.3.9.m. ↩︎ ↩︎ ↩︎ ↩︎

  3. MS I.2.15. ↩︎ ↩︎ ↩︎ ↩︎

  4. Cf. MS III.10.1. ↩︎ ↩︎ ↩︎

  5. Cf. TS VI.3.9.3. ↩︎