१८

01 ततः प्रतिप्रस्थाता पत्नीमुदानयति ...{Loading}...

ततः प्रतिप्रस्थाता पत्नीमुदानयति १

02 नमस्त आतानेति पत्न्यादित्यमुपतिष्ठते ...{Loading}...

नमस्त आतानेति पत्न्यादित्यमुपतिष्ठते २

03 अनर्वा प्रेहीति प्राचीमुदानयत्यनुमन्त्रयत ...{Loading}...

अनर्वा प्रेहीति प्राचीमुदानयत्यनुमन्त्रयत इत्येके ३

04 आपो देवीः शुद्धायुव ...{Loading}...

आपो देवीः शुद्धायुव इति चात्वाले पत्न्यपोऽवमृशत्यृत्विजो यजमानश्च ४

05 न पत्नीत्येके ...{Loading}...

न पत्नीत्येके ५

06 अद्भिः पशोः सर्वान्प्राणानाप्याययति ...{Loading}...

अद्भिः पशोः सर्वान्प्राणानाप्याययति ६

07 सर्वाण्यङ्गान्यध्वर्युरभिषिञ्चति पत्न्याप्याययति एतद्वा ...{Loading}...

सर्वाण्यङ्गान्यध्वर्युरभिषिञ्चति पत्न्याप्याययति । एतद्वा विपरीतम् । वाक्त आप्यायतामित्येतैर्यथालिङ्गम् ७

08 या ते प्राणाञ्छुग्जगामेति ...{Loading}...

या ते प्राणाञ्छुग्जगामेति हृदयदेशम् ८

09 मेढ्रन् त आप्यायतामिति ...{Loading}...

मेढ्रं त आप्यायतामिति मेढ्रम् ९

10 शुद्धाश्चरित्रा इति पादान् ...{Loading}...

शुद्धाश्चरित्रा इति पादान् १०

11 एकैकमाप्याय्य जपति शमद्भ्य ...{Loading}...

एकैकमाप्याय्य जपति शमद्भ्य इति पुरा स्तोकानां भूमेः प्रापणात् ११

12 शमोषधीभ्यः शम् पृथिव्या ...{Loading}...

शमोषधीभ्यः शं पृथिव्या इति भूम्यां शेषं निनीयौषधे त्रायस्वैनमित्युपाकरणयोरवशिष्टं दक्षिणेन नाभिमन्तर्धाय स्वधिते मैनं हिंसीरिति स्वधितिना पार्श्वतस्तिर्यगाच्छति १२

13 बर्हिषोऽग्रं सव्येन पाणिनादत्ते ...{Loading}...

बर्हिषोऽग्रं सव्येन पाणिनादत्ते १३

14 अथ मध्यं यत ...{Loading}...

अथ मध्यं यत आच्छ्यति तदुभयतो लोहितेनाङ्क्त्वा रक्षसां भागोऽसीत्युत्तरमपरमवान्तरदेशं निरस्याथैनत्सव्येन पदाभितिष्ठतीदमहं रक्षोऽवबाध इदमहं रक्षोऽधमं तमो नयामीति १४

इत्यष्टादशी कण्डिका


  1. TS I.3.8.m. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Standing with her face to the east. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.3.9.d. ↩︎ ↩︎ ↩︎

  4. TS VI.3.9.2. ↩︎ ↩︎

  5. The Adhvaryu must first take back the knife given by him to the Śamitr̥; see VII.14.14. ↩︎