१७

01 यासामूर्धश्चतुर्बिलम् मधोः पूर्णङ् ...{Loading}...

यासामूर्धश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नः सन्तु पयस्वतीरस्मिन्गोष्ठे वयोवृधः । इह पशवो विश्वरूपा रमन्तामस्मिन्यज्ञे विश्वविदो घृताचीः । अग्निं कुलायमभिसंवसाना अस्माँ अवन्तु पयसा घृतेनेति पृषदाज्यमवेक्षमाणौ वाग्यतावासाते अध्वर्युर्यजमानश्च १

02 इन्द्रस्य भागः सुविते ...{Loading}...

इन्द्रस्य भागः सुविते दधातनेमं यज्ञं यजमानं च सूरौ । यो नो द्वेष्ट्यनु तं रवस्वानागसो यजमानस्य वीरा इति च वाश्यमानेऽवेक्षेते २

03 यत्पशुर्मायुमकृतेति सञ्ज्ञप्ते सञ्ज्ञप्तहोमञ् ...{Loading}...

यत्पशुर्मायुमकृतेति सञ्ज्ञप्ते सञ्ज्ञप्तहोमं जुहोति ३

04 शमितार उपेतनेति वपाश्रपणीभ्याम् ...{Loading}...

शमितार उपेतनेति वपाश्रपणीभ्यां पशुमुपैतोऽध्वर्युर्यजमानश्च ४

05 पशोः पाशम् प्रमुञ्चत्यदितिः ...{Loading}...

पशोः पाशं प्रमुञ्चत्यदितिः पाशं प्रमुमोक्त्वेतमिति ५

06 संवेष्ट्य रशनाङ् ग्रीवासु ...{Loading}...

संवेष्ट्य रशनां ग्रीवासु निधायैकशूलयोपसज्य चात्वाल उदस्यत्यरातीयन्तमधरं करोमीति ६

07 यद्यभिचरेदरातीयन्तमधरङ् कृणोमि यन् ...{Loading}...

यद्यभिचरेदरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशमिति तया वृक्षं स्थाणुं स्तम्भं वापिदध्यात् ७

इति सप्तदशी कण्डिका इति पञ्चमः पटलः


  1. Cp. MS IV.2.10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See VII.9.2;4. ↩︎ ↩︎ ↩︎