01 यासामूर्धश्चतुर्बिलम् मधोः पूर्णङ् …{Loading}…
यासामूर्धश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नः सन्तु पयस्वतीरस्मिन्गोष्ठे वयोवृधः । इह पशवो विश्वरूपा रमन्तामस्मिन्यज्ञे विश्वविदो घृताचीः । अग्निं कुलायमभिसंवसाना अस्माँ अवन्तु पयसा घृतेनेति पृषदाज्यमवेक्षमाणौ वाग्यतावासाते अध्वर्युर्यजमानश्च १

02 इन्द्रस्य भागः सुविते …{Loading}…
इन्द्रस्य भागः सुविते दधातनेमं यज्ञं यजमानं च सूरौ । यो नो द्वेष्ट्यनु तं रवस्वानागसो यजमानस्य वीरा इति च वाश्यमानेऽवेक्षेते २
थिते
- In case (the animal) bleats they look at it with indrasya bhāgaḥ suvite dadhātana…1
इन्द्रस्य भागः सुविते दधातनेमं यज्ञं यजमानं च सूरौ । यो नो द्वेष्ट्यनु तं रवस्वानागसो यजमानस्य वीरा इति च वाश्यमानेऽवेक्षेते २
03 यत्पशुर्मायुमकृतेति सञ्ज्ञप्ते सञ्ज्ञप्तहोमञ् …{Loading}…
यत्पशुर्मायुमकृतेति सञ्ज्ञप्ते सञ्ज्ञप्तहोमं जुहोति ३
थिते
- After the animal is killed (the Adhvaryu) offers a libation (of ghee) connected with the killed (animal) with yat paśurmāyumakr̥ta…1
यत्पशुर्मायुमकृतेति सञ्ज्ञप्ते सञ्ज्ञप्तहोमं जुहोति ३
04 शमितार उपेतनेति वपाश्रपणीभ्याम् …{Loading}…
शमितार उपेतनेति वपाश्रपणीभ्यां पशुमुपैतोऽध्वर्युर्यजमानश्च ४
थिते
- With śamitāra upetana… the Adhvaryu and the sacrificer along with the omentum-roasting (sticks) go towards in animal.
शमितार उपेतनेति वपाश्रपणीभ्यां पशुमुपैतोऽध्वर्युर्यजमानश्च ४
05 पशोः पाशम् प्रमुञ्चत्यदितिः …{Loading}…
पशोः पाशं प्रमुञ्चत्यदितिः पाशं प्रमुमोक्त्वेतमिति ५
थिते
- With aditiḥ pāśaṁ pramumoktvetam1 the Adhvaryu releases the noose of the animal.
पशोः पाशं प्रमुञ्चत्यदितिः पाशं प्रमुमोक्त्वेतमिति ५
06 संवेष्ट्य रशनाङ् ग्रीवासु …{Loading}…
संवेष्ट्य रशनां ग्रीवासु निधायैकशूलयोपसज्य चात्वाल उदस्यत्यरातीयन्तमधरं करोमीति ६

07 यद्यभिचरेदरातीयन्तमधरङ् कृणोमि यन् …{Loading}…
यद्यभिचरेदरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशमिति तया वृक्षं स्थाणुं स्तम्भं वापिदध्यात् ७

इति सप्तदशी कण्डिका इति पञ्चमः पटलः