१६

01 ऊवध्यगोहम् पार्थिवङ् खनतादित्यभिज्ञायोवध्यगोहङ् ...{Loading}...

ऊवध्यगोहं पार्थिवं खनतादित्यभिज्ञायोवध्यगोहं खनति १

02 अभिपर्यग्निकृते देश उल्मुकन् ...{Loading}...

अभिपर्यग्निकृते देश उल्मुकं निदधाति २

03 स शामित्रः ...{Loading}...

स शामित्रः ३

04 तन् दक्षिणेन प्रत्यञ्चम् ...{Loading}...

तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य पृथिव्याः सम्पृचः पाहीति तस्याधस्ताद्बर्हिरुपास्यत्युपाकरणयोरन्यतरत् ४

05 तस्मिन्सञ्ज्ञपयन्ति प्रत्यक्शिरसमुदीचीनन्पादम् ...{Loading}...

तस्मिन्सञ्ज्ञपयन्ति प्रत्यक्शिरसमुदीचीनन्पादम् ५

06 अमायुङ् कृण्वन्तं सञ्ज्ञपयतेत्युक्त्वा ...{Loading}...

अमायुं कृण्वन्तं सञ्ज्ञपयतेत्युक्त्वा पराङावर्ततेऽध्वर्युः ६

07 स्वर्विदसि स्वर्वित्त्वास्वरिहि स्वर्मह्यं ...{Loading}...

स्वर्विदसि स्वर्वित्त्वास्वरिहि स्वर्मह्यं स्वः पशुभ्यः । लोकविदसि लोकं वित्त्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यः । गातुविदसि गातुं वित्त्वा गातुमिहि गातुं मह्यं गातुं पशुभ्यः । नाथविदसि नाथं वित्त्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यः । न वा उवेतन्म्रियसे न रिष्यसि देवाँ इदेषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवः सविता दधातु । अशानां त्वाशापालेभ्य इत्येषा । विश्वा आशा मधुना संसृजाम्यनमीवा आप ओषधयो भवन्तु । अयं यजमानो मृधो व्यस्यताम् । अगृभीताः पशवः सन्तु सर्व इत्युक्त्वा पराङावर्तते यजमानः । नाना प्राणो यजमानस्य पशुनेत्यध्वर्युर्जपति ७

इति षोडशी कण्डिका


  1. Either a priest or a servant. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. AB II.6. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. KS XXX.9; TB III.7.7.14; cp. III.7.6.3. ↩︎

  4. TB III.7.5.8. ↩︎

  5. TB III.7.8.3. II.5.3.3. ↩︎

  6. TS III.1.4.h. ↩︎