१५

01 पर्यग्नये क्रियमाणायानुब्रूहीति सम्प्रेष्यति ...{Loading}...

पर्यग्नये क्रियमाणायानुब्रूहीति सम्प्रेष्यति पर्यग्नयेऽनुब्रूहीति वा १

02 आहवनीयादुल्मुकमादायाग्नीध्रः परि वाजपतिः ...{Loading}...

आहवनीयादुल्मुकमादायाग्नीध्रः परि वाजपतिः कविरिति त्रिः प्रदक्षिणं पर्यग्नि करोति पशुं यूपमाहवनीयं शामित्रदेशं चात्वालम् । आज्यानि चेत्येके २

03 प्रत्यमिसृज्योल्मुकन् त्रिः प्रतिपर्येति ...{Loading}...

प्रत्यमिसृज्योल्मुकं त्रिः प्रतिपर्येति ३

04 प्रजानन्तः प्रतिगृह्णन्ति पूर्व ...{Loading}...

प्रजानन्तः प्रतिगृह्णन्ति पूर्व इति पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोत्येकं द्वे त्रीणि चत्वारि वा ४

05 पशुपतेः पशवो विरूपाः ...{Loading}...

पशुपतेः पशवो विरूपाः सदृशा उत । तेषां यं वव्रिरे देवास्तं स्वराडनुमन्यतामिति द्वितीयाम् ५

06 ये बध्यमानमिति प्रमुच्यमाने ...{Loading}...

ये बध्यमानमिति प्रमुच्यमाने । प्रमुञ्चमाना इति प्रणीयमाने ६

07 रेवतीर्यज्ञपतिम् प्रियधा विशतेति ...{Loading}...

रेवतीर्यज्ञपतिं प्रियधा विशतेति वपाश्रपणीभ्यां पशुमन्वारभेते अध्वर्युर्यजमानश्च । आश्राव्य प्रत्याश्राविते सम्प्रेष्यत्युपप्रेष्य होतर्हव्या देवेभ्य इति ७

08 प्रास्मा अग्निम् भरत ...{Loading}...

प्रास्मा अग्निं भरत स्तृणीत बर्हिरिति होतुरभिज्ञायाहवनीयादुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते ८

09 शमिता पशुन् नयति ...{Loading}...

शमिता पशुं नयति ९

10 उरो अन्तरिक्षेत्यन्तरा चात्वालोत्करावुदञ्चम् ...{Loading}...

उरो अन्तरिक्षेत्यन्तरा चात्वालोत्करावुदञ्चं पशुं नयन्ति १०

11 नाना प्राणो यजमानस्य ...{Loading}...

नाना प्राणो यजमानस्य पशुनेत्यध्वर्युर्जपति ११

इति पञ्चदशी कण्डिका


  1. The Maitrāvaruṇa then recites RV IV. 15.1-3 (each verse thrice); cf. KB XXVIII.2; Āśvśs III.2.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ŚB III.8.1.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV. 1.2.t-w. ↩︎