१४

01 स्रुच्यमाघार्य प्रत्याक्रम्य जुह्वा …{Loading}…

स्रुच्यमाघार्य प्रत्याक्रम्य जुह्वा पशुं समनक्ति १

02 सन् ते प्राणो …{Loading}…

सं ते प्राणो वायुना गच्छतामिति शिरसि । सं यजत्रैरङ्गानीत्यंसोच्चलयोः । सं यज्ञपतिराशिषेति श्रोण्याम् २

03 ध्रुवासमञ्जनादि कर्म प्रतिपद्यते …{Loading}…

ध्रुवासमञ्जनादि कर्म प्रतिपद्यते समानमा प्रवरात् ३

04 षडृत्विजः …{Loading}…

षडृत्विजः ४

05 दैवञ् च मानुषञ् …{Loading}…

दैवं च मानुषं च होतारौ वृत्वा पुनराश्राव्य मैत्रावरुणं प्रवृणीते मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादिति ५

06 तिष्ठति पशावेकादश प्रयाजान्यजति …{Loading}…

तिष्ठति पशावेकादश प्रयाजान्यजति ६

07 समिद्भ्यः प्रेष्येति प्रथमं …{Loading}…

समिद्भ्यः प्रेष्येति प्रथमं सम्प्रेष्यति । प्रेष्य प्रेष्येतीतरान् ७

08 चतुर्थाष्टमयोः प्रतिसमानीय दशेष्ट्वैकादशायाज्यमवशिनष्टि …{Loading}…

चतुर्थाष्टमयोः प्रतिसमानीय दशेष्ट्वैकादशायाज्यमवशिनष्टि ८

09 तान्यजमानः प्राकृतैरादितश्चतुर्भिश्चतुरोऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन …{Loading}…

तान्यजमानः प्राकृतैरादितश्चतुर्भिश्चतुरोऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन दुरःप्रभृतींस्त्रीनुत्तमेन शेषम् ९

10 प्रत्याक्रम्य जुह्वा स्वरुस्वधिती …{Loading}…

प्रत्याक्रम्य जुह्वा स्वरुस्वधिती अनक्ति । त्रिः स्वरुं सकृत्स्वधितेरन्यतरां धाराम् १०

11 स्वरुमन्तर्धाय स्वधितिना पशुं …{Loading}…

स्वरुमन्तर्धाय स्वधितिना पशुं समनक्ति घृतेनाक्तौ पशुं त्रायेथामिति शिरसि ११

12 न वा स्वधितिना …{Loading}…

न वा स्वधितिना स्वरुणैव १२

13 अक्तया शृतस्यावद्यति पशुमितरया …{Loading}…

अक्तया शृतस्यावद्यति पशुमितरया विशास्ति १३

14 शमित्रे स्वधितिम् प्रयच्छन्नाह …{Loading}…

शमित्रे स्वधितिं प्रयच्छन्नाह शमितरेषा तेऽश्रिः स्पष्टास्त्विति १४

इति चतुर्दशी कण्डिका


  1. See II.13.2-14.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See II.14.10. ↩︎ ↩︎ ↩︎