१३

01 अग्नये मथ्यमानायानुब्रूहीति सम्प्रेष्यति ...{Loading}...

अग्नये मथ्यमानायानुब्रूहीति सम्प्रेष्यति । मथ्यमानायानुब्रूहीति वा १

02 प्रथमायान् त्रिरनूक्तायान् त्रिः ...{Loading}...

प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनुप्रजायस्वेति प्रथमं त्रैष्टुभमिति द्वितीयं जागतमिति तृतीयम् २

03 ततो यथा प्राशु ...{Loading}...

ततो यथा प्राशु मन्थति ३

04 यदि मथ्यमानो न ...{Loading}...

यदि मथ्यमानो न जायेत राक्षोघ्नीरनुब्रूयात् ४

05 जातायानुब्रूहीति जाते सम्प्रेष्यति ...{Loading}...

जातायानुब्रूहीति जाते सम्प्रेष्यति । प्रह्रियमाणायेति प्रहरन् ५

06 भवतन् नः समनसावित्यग्रेणोत्तरम् ...{Loading}...

भवतं नः समनसावित्यग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा ६

07 अग्नावग्निश्चरति प्रविष्ट इति ...{Loading}...

अग्नावग्निश्चरति प्रविष्ट इति प्रहृत्य स्रुवेणाभिजुहोति ७

08 सावित्रेण रशनामादाय पशोर्दक्षिणे ...{Loading}...

सावित्रेण रशनामादाय पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमुत्कृष्यर्तस्य त्वा देवहविः पाशेनारभ इति दक्षिणेऽर्धशिरसि पाशेनाक्ष्णया प्रतिमुच्य धर्षा मानुषानित्युत्तरतो यूपस्य नियुनक्ति ८

09 दक्षिणत ऐकादशिनान् ...{Loading}...

दक्षिणत ऐकादशिनान् ९

10 अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति ...{Loading}...

अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति १०

11 अपाम् पेरुरसीति पाययति ...{Loading}...

अपां पेरुरसीति पाययति ११

12 स्वात्तञ् चित्सदेवं हव्यमापो ...{Loading}...

स्वात्तं चित्सदेवं हव्यमापो देवीः स्वदतैनमित्युपरिष्टादधस्तात्सर्वतश्च प्रीक्ष्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते १२

इति त्रयोदशी कण्डिका इति चतुर्थः पटलः


  1. viz. RV I.24.3; cp.AB I.16.2; TS VI.3.5.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The Hotr̥ recites RV VI.16.40.c, 41,42,I.12.6;VII.43.14 and thrice I.164.50. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.3.8.b. ↩︎ ↩︎

  4. Cf. TS VI.3.6.3. ↩︎ ↩︎

  5. TS I.3.8.c. see VII.12.9. ↩︎