१२

01 पशुं स्नपयन्ति कूटकर्णकाणखण्डबण्डश्लोणसप्तशफवर्जम् ...{Loading}...

पशुं स्नपयन्ति कूटकर्णकाणखण्डबण्डश्लोणसप्तशफवर्जम् १

02 यद्यङ्गहीनः स्यादङ्गतो वा ...{Loading}...

यद्यङ्गहीनः स्यादङ्गतो वा विरुज्येत २

03 अथैकेषां वैष्णवीमाग्नावैष्णवीं सारस्वतीम् ...{Loading}...

अथैकेषां वैष्णवीमाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामिति च हुत्वा प्रयोजयेत् ३

04 योऽपन्नदन्मलन् तत्पशूनामिति विज्ञायते ...{Loading}...

योऽपन्नदन्मलं तत्पशूनामिति विज्ञायते ४

05 इषे त्वेति बर्हिषी ...{Loading}...

इषे त्वेति बर्हिषी आदत्ते । उपवीरसीति प्लक्षशाखां बहुपर्णशाखामप्रतिशुष्काग्रामसुषिराम् ५

06 यङ् कामयेतापशुः स्यादित्यपर्णया ...{Loading}...

यं कामयेतापशुः स्यादित्यपर्णया तस्य शुष्काग्रयोपाकुर्यात् ६

07 तृणेनोपाकरोतीत्येके ...{Loading}...

तृणेनोपाकरोतीत्येके ७

08 बर्हिर्भ्याम् प्लक्षशाखया च ...{Loading}...

बर्हिर्भ्यां प्लक्षशाखया च पुरस्तात्प्रत्यञ्चं पशुमुपाकरोति । उपो देवान्दैवीर्विशः प्रजापतेर्जायमाना इति चैताभ्यामुपस्पृशन्निन्द्राग्निभ्यां त्वा जुष्टमुपाकरोमीति ८

09 पञ्चकृत्वो देवतोपदेशनमुपाकरणे नियोजने ...{Loading}...

पञ्चकृत्वो देवतोपदेशनमुपाकरणे नियोजने प्रोक्षणे वपाया उद्धरणे हृदयस्याभिघारण इति ९

10 प्रजानन्तः प्रतिगृह्णन्ति पूर्व ...{Loading}...

प्रजानन्तः प्रतिगृह्णन्ति पूर्व इति पञ्च हुत्वाग्निं मन्थति १०

11 अपि वाग्निम् मथित्वोपाकुर्यात् ...{Loading}...

अपि वाग्निं मथित्वोपाकुर्यात् ११

12 अग्नेर्जनित्रमसीत्यधिमन्थनं शकलन् निदधाति ...{Loading}...

अग्नेर्जनित्रमसीत्यधिमन्थनं शकलं निदधाति । वृषणौ स्थ इति प्राञ्चौ दर्भौ १२

13 उर्वश्यसीत्यधरारणिमादत्ते पुरूरवा इत्युत्तरारणिम् ...{Loading}...

उर्वश्यसीत्यधरारणिमादत्ते । पुरूरवा इत्युत्तरारणिम् १३

14 देवो वां सविता ...{Loading}...

देवो वां सविता मध्वानक्त्वित्याज्यस्थाल्या बिलेऽङ्क्त्वा घृतेनाक्ते वृषणं दधाथामित्युभे अभिमन्त्र्यायुरसीति समवधाय १४

इति द्वादशी कण्डिका


  1. Cf. MS III.9.6; ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. one of its hoofs not being solit. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. KS XXVI. 7. ↩︎ ↩︎ ↩︎

  4. See VII.19.2. ↩︎

  5. See VII.23.7. ↩︎