११

01 उन्नम्भय पृथिवीमित्यद्भिः परिषिञ्चति …{Loading}…

उन्नम्भय पृथिवीमित्यद्भिः परिषिञ्चति १

02 दर्भमय्यौ रशने भवतः …{Loading}…

दर्भमय्यौ रशने भवतः । द्विगुना द्विव्यायामा पशुरशना त्रिगुणा त्रिव्यायामा यूपस्य २

03 देवस्य त्वा सवितुः …{Loading}…

देवस्य त्वा सवितुः प्रसव इति रशनामादाय विष्णोः कर्माणि पश्यतेति सरशनेन पाणिना यूपमुन्मार्ष्टि ३

04 तद्विष्णोः परमम् पदमित्यग्रम् …{Loading}…

तद्विष्णोः परमं पदमित्यग्रं प्रेक्षते । यूपाय परिवीयमाणायानुब्रूहीति सम्प्रेष्यति । परिवीयमाणायानुब्रूहीति वा ४

05 परिवीरसीति नाभिदघ्ने रशनया …{Loading}…

परिवीरसीति नाभिदघ्ने रशनया त्रिः प्रदक्षिणं यूपं परिव्ययति मध्यदेशे वा ५

06 यङ् कामयेतोर्जैनमित्युक्तम् …{Loading}…

यं कामयेतोर्जैनमित्युक्तम् ६

07 अधो दूरम् परिव्ययेद्वृष्टिकामस्योपरि …{Loading}…

अधो दूरं परिव्ययेद्वृष्टिकामस्योपरि दूरमवृष्टिकामस्यत्ये!के ७

08 यङ् कामयेत स्त्र्यस्य …{Loading}…

यं कामयेत स्त्र्यस्य जायेतेत्युपान्ते तस्य व्यतिषज्य न प्रवेष्टयेत् ८

09 यङ् कामयेत पुमानस्य …{Loading}…

यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य प्रवेष्ट्याणिमति स्थविमत्प्रवीय दिवः सूनुरसीति स्वरुमादायान्तरिक्षस्य त्वा सानाववगूहामीत्युत्तरेणाग्निष्ठां मध्यमे रशनागुणेऽवगूहति ९

10 उत्तमे सर्वेषु वा …{Loading}…

उत्तमे सर्वेषु वा । द्वयोरधरयोरिति वाजसनेयकम् १०

इत्यकादशी कण्डिका इति तृतीयः पटलः


  1. TS II.4.8.f. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS III.9.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See ŚB III.7.1.20; see VII.4.3. ↩︎ ↩︎ ↩︎ ↩︎

  4. TS I.3.6.p. ↩︎

  5. For the role of Svaru here see KS XXVI.6; ŚB III.7.1.22. ↩︎