१०

01 यूपायाज्यमानायानुब्रूहीति सम्प्रेष्यत्यज्यमानायानुब्रूह्यञ्ज्मो यूपमनुब्रूहीति …{Loading}…

यूपायाज्यमानायानुब्रूहीति सम्प्रेष्यत्यज्यमानायानुब्रूह्यञ्ज्मो यूपमनुब्रूहीति वा १

02 अथैनमसंस्कृतेनाज्येन यजमानोऽग्रतः शकलेनानक्ति …{Loading}…

अथैनमसंस्कृतेनाज्येन यजमानोऽग्रतः शकलेनानक्ति २

03 ऐन्द्रमसीति चषालमक्त्वा सुपिप्पलाभ्यस्त्वौषधीभ्य …{Loading}…

ऐन्द्रमसीति चषालमक्त्वा सुपिप्पलाभ्यस्त्वौषधीभ्य इति प्रतिमुच्य देवस्त्वा सविता मध्वानक्त्विति स्रुवेण सन्ततमविच्छिन्दन्नग्निष्ठामश्रिमनक्त्योपरात् ३

04 रशनादेशे त्रिः सर्वतो …{Loading}…

रशनादेशे त्रिः सर्वतो यूपं सम्मृशति ४

05 अञ्जनादि यूपं यजमानो …{Loading}…

अञ्जनादि यूपं यजमानो नोत्सृजात्या परिव्ययणात् ५

06 यूपायोच्छ्रीयमाणायानुब्रूहीति सम्प्रेष्यत्युच्छ्रीयमाणायानुब्रूहीति वा …{Loading}…

यूपायोच्छ्रीयमाणायानुब्रूहीति सम्प्रेष्यत्युच्छ्रीयमाणायानुब्रूहीति वा ६

07 उद्दिवं स्तभानान्तरिक्षम् पृणेत्युच्छ्रयति …{Loading}…

उद्दिवं स्तभानान्तरिक्षं पृणेत्युच्छ्रयति ७

08 ते ते धामानीत्यवटेऽवदधाति …{Loading}…

ते ते धामानीत्यवटेऽवदधाति ८

09 विष्णोः कर्माणि पश्यतेति …{Loading}…

विष्णोः कर्माणि पश्यतेति द्वाभ्यामाहवनीयेनाग्निष्ठां सम्मिनोति ९

10 यङ् कामयेत तेजसैनमित्युक्तम् …{Loading}…

यं कामयेत तेजसैनमित्युक्तम् १०

11 अग्रमाहवनीयमुपनतं यूपस्यावनतम् मूलम् …{Loading}…

अग्रमाहवनीयमुपनतं यूपस्यावनतं मूलम् ११

12 अनाविरुपरङ् कृत्वा ब्रह्मवनिन् …{Loading}…

अनाविरुपरं कृत्वा ब्रह्मवनिं त्वा क्षत्रवनिमिति प्रदक्षिणं पांसुभिः पर्यूह्य ब्रह्म दृंह क्षत्रं दृंहेति मैत्रावरुणदण्डेन समं भूमिपरिदृंहणं कृत्वा १२

इति दशमी कण्डिका


  1. TS I.3.1.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS 1.3.6.g. ↩︎ ↩︎

  3. TS 1.3.6.f. ↩︎ ↩︎

  4. That part which remains under the ground when the post is fixed. ↩︎