०९

01 आज्यग्रहणकाले चतुर्जुह्वाङ् गृह्णाति ...{Loading}...

आज्यग्रहणकाले चतुर्जुह्वां गृह्णाति चतुरुपभृति १

02 दधन्याज्यमानीय महीनाम् पयोऽसीति ...{Loading}...

दधन्याज्यमानीय महीनां पयोऽसीति पृषदाज्यधान्यां पञ्चगृहीतं पृषदाज्यं ज्योतिरसि विश्वरूपं विश्वेषां देवानां समिदिति वा २

03 चतुर्ध्रुवायाम् ...{Loading}...

चतुर्ध्रुवायाम् ३

04 सादनकाल आज्यानि सादयति ...{Loading}...

सादनकाल आज्यानि सादयति ४

05 उपभृद्वत्पृषदाज्यधानीम् ...{Loading}...

उपभृद्वत्पृषदाज्यधानीम् ५

06 पूर्ववदाज्यान्यभिमन्त्र्याग्रेणाहवनीयं यूपावटम् परिलिखत्यर्धमन्तर्वेद्यर्धम् ...{Loading}...

पूर्ववदाज्यान्यभिमन्त्र्याग्रेणाहवनीयं यूपावटं परिलिखत्यर्धमन्तर्वेद्यर्धं बहिर्वेदि ६

07 पूर्ववदभ्रेरादानम् परिलेखनश्च ...{Loading}...

पूर्ववदभ्रेरादानं परिलेखनश्च ७

08 अथ खनति यथा ...{Loading}...

अथ खनति यथा नाविरुपरं भविष्यतीति ८

09 अग्रेणावटम् प्राञ्चं यूपन् ...{Loading}...

अग्रेणावटं प्राञ्चं यूपं निधाय यत्ते शिक्वः परावधीत्तक्षा हस्तेन वास्या । आपस्तत्सर्वं जीवलाः शुन्धन्तु शुचयः शुचिमिति यूपं प्रक्षाल्याथैनं यवमतीभिः प्रोक्षति । पृथिव्यै त्वेति मूलमन्तरिक्षाय त्वेति मध्यं दिवे त्वेत्यग्रम् ९

10 शुन्धतां लोकः पितृषदन ...{Loading}...

शुन्धतां लोकः पितृषदन इति प्रोक्षणीशेषमवटेऽवनीय यवोऽसीति यवमवास्य पितॄणां सदनमसीति बर्हिषावस्तीर्य स्वावेशोऽसीति प्रथमपरापातिनं शकलमवास्य घृतेन द्यावापृथिवी आपृणेथामिति स्रुवेण शकले हुत्वा १०

इति नवमी कण्डिका


  1. Contrast II.7.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. SB III.6.3.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. MS III.9.4. KS xxv.6. ↩︎ ↩︎ ↩︎

  4. The singular based on MS III.9.3. ↩︎

  5. TS 1.3.6.d. ↩︎

  6. Cf. TS VI.3.4.2. ↩︎

  7. TS 1.3.6.e. ↩︎

  8. See VII.2.5. ↩︎

  9. TS 1.3.1.m. ↩︎

  10. The sentence is incomplete. See the next Sūtra. ↩︎