०८

01 अग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म ...{Loading}...

अग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते १

02 यथार्थम् पात्राणि प्रयुनक्ति ...{Loading}...

यथार्थं पात्राणि प्रयुनक्ति २

03 स्फ्यमग्निहोत्रहवणीं वसाहोमहवनीन् द्वितीयाञ् ...{Loading}...

स्फ्यमग्निहोत्रहवणीं वसाहोमहवनीं द्वितीयां जुहूं पृषदाज्यधानीं द्वितीयामुपभृतं द्वे आज्यस्थाल्यौ हृदयशूलमसिं कुम्भीं प्लक्षशाखां शाकपवित्रं कार्ष्मर्यमय्यौ वपाश्रपण्यौ द्विशूलामेकशूलां चौदुम्बरं मैत्रावरुणदण्डमास्यदघ्नं चुबुकदघ्नं वा रशने च ३

04 पवित्रे कृत्वा यजमान ...{Loading}...

पवित्रे कृत्वा यजमान वाचं यच्छेति सम्प्रेष्यति ४

05 वाग्यतः ह्पात्राणि सम्मृश्य ...{Loading}...

वाग्यतः ह्पात्राणि सम्मृश्य प्रोक्षणीः संस्कृत्य ब्राह्मणमामन्त्र्य पात्राणि प्रोक्षत्यत्र वाचं विसृजते । स्फ्यमादायोत्तरं परिग्राहं परिगृह्य दर्शपूर्णमासवत्सम्प्रेष्यति । आज्येन दध्नोदेहीति सम्प्रैषान्तं नमति ५

06 स्रुचां सम्मार्जनकाले स्रुवं ...{Loading}...

स्रुचां सम्मार्जनकाले स्रुवं सम्मृज्य तस्यावता स्वधितिम् ६

07 जुहूवद्वसाहोमहवनीमुपभृद्वत्पृषदाज्यधानीम् आज्यन् निरुप्य ...{Loading}...

जुहूवद्वसाहोमहवनीमुपभृद्वत्पृषदाज्यधानीम् । आज्यं निरुप्य दधि निर्वपति ७

08 अधिश्रयणवर्जन् दधनि क्रियते ...{Loading}...

अधिश्रयणवर्जं दधनि क्रियते ८

09 नैतस्य दध्नः संस्कारो ...{Loading}...

नैतस्य दध्नः संस्कारो विद्यत इत्यपरम् ९

इत्यष्टमी कण्डिका


  1. See 1.11.4, 1.15.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See 1.15.4-5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See VII.22.9. ↩︎ ↩︎ ↩︎

  4. See VII.18.12. ↩︎ ↩︎

  5. See VII.22.9. ↩︎ ↩︎

  6. See VII.20.4; 23.12. ↩︎ ↩︎

  7. See VII.19.1. ↩︎ ↩︎

  8. Sce VII.14.5. ↩︎ ↩︎

  9. See VII.11.2. ↩︎ ↩︎