०७

01 अग्नेः पुरीषमसीत्युत्तरत उपयमनीर्न्युप्य ...{Loading}...

अग्नेः पुरीषमसीत्युत्तरत उपयमनीर्न्युप्य मनुष्वत्त्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यजेत्युपसमिध्य द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति १

02 अग्निर्वायुरादित्यो विष्णुर्यज्ञन् नयतु ...{Loading}...

अग्निर्वायुरादित्यो विष्णुर्यज्ञं नयतु प्रजानन्मैनं यज्ञहनो विदन्देवेभ्यो यज्ञं प्रब्रूतात्प्रप्र यज्ञपतिं तिर स्वाहेति चतस्रोऽतिमुक्तीर्जुहोति २

03 एष पशुबन्धस्याहवनीयो यतः ...{Loading}...

एष पशुबन्धस्याहवनीयो यतः प्रणयति स गार्हपत्यः ३

04 प्रणीते चेदग्निहोत्रकाल एतस्मिन्नेवाग्निहोत्रञ् ...{Loading}...

प्रणीते चेदग्निहोत्रकाल एतस्मिन्नेवाग्निहोत्रं जुहुयात् ४

05 एवमन्यत्र विप्रक्रान्ते तन्त्रे ...{Loading}...

एवमन्यत्र विप्रक्रान्ते तन्त्रे ५

06 इध्माबर्हिराहरति ...{Loading}...

इध्माबर्हिराहरति ६

07 त्रयोविंशतिदारुरिध्म आश्ववालः प्रस्तर ...{Loading}...

त्रयोविंशतिदारुरिध्म आश्ववालः प्रस्तर ऐक्षवो विधृती कार्ष्मर्यमयाः परिधयः ७

इति सप्तमी कण्डिका इति द्वितीयः पटलः


  1. TS I.2.12.3b. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III.11.6.3; KS II.9. ↩︎ ↩︎

  3. TS I.5.3.h; cp. V.18.1 ↩︎