०६

01 अग्नेर्भस्मासीत्युत्तरवेद्यां सम्भारान्निवपति गुल्गुलु ...{Loading}...

अग्नेर्भस्मासीत्युत्तरवेद्यां सम्भारान्निवपति गुल्गुलु सुगन्धितेजनं श्वेतामूर्णास्तुकां पेत्वस्यान्तराशृङ्गीयां लूनस्यालूनपूर्वस्य वा १

02 व्याघारणप्रभृति सम्भारनिवपनान्तमुत्तरवेद्यामुपर्यग्नौ धार्यमाण ...{Loading}...

व्याघारणप्रभृति सम्भारनिवपनान्तमुत्तरवेद्यामुपर्यग्नौ धार्यमाण एके समामनन्ति २

03 प्रोक्षान्ताङ् कृत्वोदुम्बरशाखाभिः लक्षशाखाभिर्वा ...{Loading}...

प्रोक्षान्तां कृत्वोदुम्बरशाखाभिः लक्षशाखाभिर्वा प्रच्छाद्य वसति यद्यसद्यस्कालः पशुर्भवति ३

04 आहवनीये प्रणयनीयमिध्मामादीप्य सिकताभिरुपयम्याग्नये ...{Loading}...

आहवनीये प्रणयनीयमिध्मामादीप्य सिकताभिरुपयम्याग्नये प्रणीयमानायानुब्रूहीति सम्प्रेष्यति । प्रणीयमानायानुब्रूहीति वा ४

05 उद्यम्याग्निमाहवनीय उद्यतहोमञ् जुहोति ...{Loading}...

उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्नपरो भवासि । घृतेन त्वं तन्वं वर्धयस्व मा मा हिंसीरधिगतं पुरस्तात्स्वाहेति ५

06 प्रथमायान् त्रिरनूक्तायामुपयमनीभिरुपयम्य हरति ...{Loading}...

प्रथमायां त्रिरनूक्तायामुपयमनीभिरुपयम्य हरति ६

07 ऊर्णावन्तम् प्रथमः सीद ...{Loading}...

ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञायाग्ने बाधस्व विमृधो नुदस्वापामीवा अप रक्षांसि सेध । अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह । यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नथामृतेन जरितारमङ्ग्धीह यज्ञः प्रत्यष्ठादिति सम्भारेषु प्रतिष्ठाप्य ७

इति षष्ठी कण्डिका


  1. TS I.2.12.n. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For this Sūtra cp. TS VI.2.8.4-6. For the alternative “unshaved” cp. MS III.8.5. ↩︎ ↩︎ ↩︎

  3. See VII.6.4.ff. ↩︎ ↩︎

  4. Cp. KS ↩︎

  5. The sentence is incomplete. See the next Sūtra. ↩︎