01 अग्नेर्भस्मासीत्युत्तरवेद्यां सम्भारान्निवपति गुल्गुलु …{Loading}…
अग्नेर्भस्मासीत्युत्तरवेद्यां सम्भारान्निवपति गुल्गुलु सुगन्धितेजनं श्वेतामूर्णास्तुकां पेत्वस्यान्तराशृङ्गीयां लूनस्यालूनपूर्वस्य वा १

02 व्याघारणप्रभृति सम्भारनिवपनान्तमुत्तरवेद्यामुपर्यग्नौ धार्यमाण …{Loading}…
व्याघारणप्रभृति सम्भारनिवपनान्तमुत्तरवेद्यामुपर्यग्नौ धार्यमाण एके समामनन्ति २

03 प्रोक्षान्ताङ् कृत्वोदुम्बरशाखाभिः लक्षशाखाभिर्वा …{Loading}…
प्रोक्षान्तां कृत्वोदुम्बरशाखाभिः लक्षशाखाभिर्वा प्रच्छाद्य वसति यद्यसद्यस्कालः पशुर्भवति ३

04 आहवनीये प्रणयनीयमिध्मामादीप्य सिकताभिरुपयम्याग्नये …{Loading}…
आहवनीये प्रणयनीयमिध्मामादीप्य सिकताभिरुपयम्याग्नये प्रणीयमानायानुब्रूहीति सम्प्रेष्यति । प्रणीयमानायानुब्रूहीति वा ४
थिते
- Having inflamed the fuel-stick which is to be carried forward (upto the Uttaravedi) on the Āhavanīya-fire,1 having supported it by sand, he orders the Hotr̥: “Do you recite for the fire being carried forward" or, “Do you recite for being carried forward”
आहवनीये प्रणयनीयमिध्मामादीप्य सिकताभिरुपयम्याग्नये प्रणीयमानायानुब्रूहीति सम्प्रेष्यति । प्रणीयमानायानुब्रूहीति वा ४
05 उद्यम्याग्निमाहवनीय उद्यतहोमञ् जुहोति …{Loading}…
उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्नपरो भवासि । घृतेन त्वं तन्वं वर्धयस्व मा मा हिंसीरधिगतं पुरस्तात्स्वाहेति ५
थिते
- Having lifted the fire (i.e. burning fuel-stick), he offers a libation (of ghee) in the Āhavanīya for the lifted up (fire) with yat te pāvaka cakr̥mā……1
उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति यत्ते पावक चकृमा कच्चिदागः पूर्वो यत्सन्नपरो भवासि । घृतेन त्वं तन्वं वर्धयस्व मा मा हिंसीरधिगतं पुरस्तात्स्वाहेति ५
06 प्रथमायान् त्रिरनूक्तायामुपयमनीभिरुपयम्य हरति …{Loading}…
प्रथमायां त्रिरनूक्तायामुपयमनीभिरुपयम्य हरति ६
थिते
- After the first verse1 has been recited for three times , the Hotr̥, (the Adhvaryu) carries (the fire) having supported by means of the supporting sand.
प्रथमायां त्रिरनूक्तायामुपयमनीभिरुपयम्य हरति ६
07 ऊर्णावन्तम् प्रथमः सीद …{Loading}…
ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञायाग्ने बाधस्व विमृधो नुदस्वापामीवा अप रक्षांसि सेध । अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह । यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु । दीर्घमायुर्यजमानाय कृण्वन्नथामृतेन जरितारमङ्ग्धीह यज्ञः प्रत्यष्ठादिति सम्भारेषु प्रतिष्ठाप्य ७

इति षष्ठी कण्डिका