०५

01 अथास्यामध्ये प्रादेशमात्रीङ् गोपदमात्रीमश्वशफमात्रीं ...{Loading}...

अथास्यामध्ये प्रादेशमात्रीं गोपदमात्रीमश्वशफमात्रीं वोत्तरनाभिं चतुःस्रक्तिं कृत्वा चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्तामित्युभे अभिमन्त्र्येन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वित्येतैर्यथालिङ्गमुत्तरवेदिं प्रोक्षति १

02 त्वष्टा त्वा रूपैरुपरिष्टात्पात्विति ...{Loading}...

त्वष्टा त्वा रूपैरुपरिष्टात्पात्विति मध्यम् २

03 प्रोक्षणीशेषन् दक्षिणत उत्तरवेद्यै ...{Loading}...

प्रोक्षणीशेषं दक्षिणत उत्तरवेद्यै निनयेच्छुचा त्वार्पयामीति द्वेष्यं मनसा ध्यायन् ३

04 पूर्ववदेकस्फ्यान् दक्षिणतो निःसार्य ...{Loading}...

पूर्ववदेकस्फ्यां दक्षिणतो निःसार्य जुह्वां पञ्चगृहीतं गृहीत्वा सर्वत्र हिरण्यमुपास्यन्नक्ष्णयोत्तरवेदिमुत्तरनाभिं वा व्याघारयति ४

05 दक्षिणमंसमुत्तरां श्रोणिन् दक्षिणामुत्तरमंसम् ...{Loading}...

दक्षिणमंसमुत्तरां श्रोणिं दक्षिणामुत्तरमंसं मध्यमिति सिंहीरसीत्येतैः प्रतिमन्त्रम् ५

06 भूतेभ्यस्त्वेति स्रुचमुद्गृह्य पौतुद्रवैः ...{Loading}...

भूतेभ्यस्त्वेति स्रुचमुद्गृह्य पौतुद्रवैः परिधिभिरुत्तरवेदिं परिदधाति विश्वायुरसीति मध्यमं ध्रुवक्षिदसीति दक्षिणमच्युतक्षिदसीत्युत्तरम् ६

07 परिधिसन्धिना सर्वाहुतीर्जुहोति ...{Loading}...

परिधिसन्धिना सर्वाहुतीर्जुहोति ७

इति पञ्चमी कण्डिका


  1. Cp. TS III.5.1.a,e,d. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.2.12.i. ↩︎ ↩︎ ↩︎

  3. Cf. TS VI.2.8.3. For details see the next Sūtra. ↩︎ ↩︎