०४

01 उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालः ...{Loading}...

उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालः १

02 तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य ...{Loading}...

तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादाय परिलिखितं रक्षं परिलिखिता अरातय इति त्रिः प्रदक्षिणं परिलिख्य तूष्णीं जानुदघ्नं त्रिवितस्तं वा खात्वोत्तरवेद्यर्थान्पांसून्हरति विदेरिति २

03 सिंहीरसीत्युत्तरवेद्यान् निवपति ...{Loading}...

सिंहीरसीत्युत्तरवेद्यां निवपति ३

04 एतेनैव यो द्वितीयस्यामिति ...{Loading}...

एतेनैव यो द्वितीयस्यामिति द्वितीयं यस्तृतीयस्यामिति तृतीयम् ४

05 तूष्णीञ् चतुर्थं हृत्वोरु ...{Loading}...

तूष्णीं चतुर्थं हृत्वोरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति प्रथयित्वा ध्रुवासीति शम्यया संहत्य देवेभ्यः कल्पस्वेत्यभिमन्त्र्य देवेभ्यः शुन्धस्वेत्यद्भिरवोक्ष्य देवेभ्यः शुम्भस्वेति सिकताभिरवकीर्य प्रोक्षणीशेषमुत्तरत उत्तरवेद्यै निनीयापो रिप्रं निर्वहतेति स्फ्येनोदीचीमेकस्फ्यां निःसार्य विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजतीत्युत्तरवेद्या अन्तान्कल्पयति ५

06 सम्मृशतीत्येके ...{Loading}...

सम्मृशतीत्येके ६

इति चतुर्थी कण्डिका


  1. From which the soil for Uttaravedi is to be taken. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.2.5.d-e (=TS I.3.1.b-c) ↩︎ ↩︎ ↩︎

  3. Cf. KSXXV.6; MS III.8.5. ↩︎ ↩︎ ↩︎

  4. TS I.2.12.c. ↩︎

  5. KS XXV.6; MS III.8.5. ↩︎

  6. KS XXV.6. ↩︎