०३

01 मूलतोऽतष्टमुपरम् ...{Loading}...

मूलतोऽतष्टमुपरम् १

02 अष्टाश्रिरनुपूर्वोऽग्रतोऽणीयान्प्रज्ञाताग्निष्ठाश्रिरस्थूलो ऽनणुः ...{Loading}...

अष्टाश्रिरनुपूर्वोऽग्रतोऽणीयान्प्रज्ञाताग्निष्ठाश्रिरस्थूलो ऽनणुः २

03 अवतक्षणानां स्वरुरधिमन्थनश्च शकलः ...{Loading}...

अवतक्षणानां स्वरुरधिमन्थनश्च शकलः ३

04 अग्राच्चषालम् पृथमात्रमष्टाश्रिमध्ये सन्नतम् ...{Loading}...

अग्राच्चषालं पृथमात्रमष्टाश्रिमध्ये सन्नतम् ४

05 यङ् कामयेतान्योऽस्य लोकमभ्यारोहेदिति ...{Loading}...

यं कामयेतान्योऽस्य लोकमभ्यारोहेदिति तस्यान्यवृक्षस्य स्वरुचषाले कुर्यात् ५

06 यावदुत्तममङ्गुलिकाण्डन् तावदूर्ध्वञ् चषालाद्यूपस्यातिरिक्तन् ...{Loading}...

यावदुत्तममङ्गुलिकाण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरिक्तं द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वा ६

07 रथमात्री निरूढपशुबन्धस्य वेदिः ...{Loading}...

रथमात्री निरूढपशुबन्धस्य वेदिः ७

08 अक्षसम्मिता पश्चात्तिर्यगीषया प्राची ...{Loading}...

अक्षसम्मिता पश्चात्तिर्यगीषया प्राची विपथयुगेन पुरस्ताद्यावता वा बाह्ये छिद्रे ८

09 अरत्निर्भिर्वा चतुर्भिः पश्चात् ...{Loading}...

अरत्निर्भिर्वा चतुर्भिः पश्चात् षड्भिः प्राची त्रिभिः पुरस्तात् ९

10 तां वेदङ् कृत्वा ...{Loading}...

तां वेदं कृत्वा दर्शपूर्णमासवत्सन्नमनवर्जं प्रागुत्तरात्परिग्राहात्कृत्वापरेण यूपावटदेशं सञ्चरमवशिष्य वेद्यामुत्तरवेदिं दशपदां सोमे करोति १०

11 अंहीयसीम् पुरस्तादित्येके ...{Loading}...

अंहीयसीं पुरस्तादित्येके ११

12 तां युगेन यजमानस्य ...{Loading}...

तां युगेन यजमानस्य वा पदैर्विमाय शम्यया परिमिमीते १२

13 शम्यामात्री निरूढपशुबन्धस्योत्तरवेदिः ...{Loading}...

शम्यामात्री निरूढपशुबन्धस्योत्तरवेदिः १३

14 शम्याम् पुरस्तादुदगग्रान् निधाय ...{Loading}...

शम्यां पुरस्तादुदगग्रां निधाय स्फ्येनोदीचीमभ्यन्तरमुपलिखति वित्तायनी मेऽसीति । एवं दक्षिणतः प्राचीं तिक्तायनी मेऽसीति । पश्चादुदीचीमवतान्मा नाथितमिति । उत्तरतः प्राचीमवतान्मा व्यथितमिति १४

इति तृतीया कण्डिका इति प्रथमः पटलः


  1. This part is buried under the ground. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS III.9.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. ŚB III.7.1.12. For Caṣāla see VII. 10.3. ↩︎ ↩︎ ↩︎

  4. Thus he performs the acts like carrying the Stambayajus, preparation of Utkara, the first tracing, and the digging of the altar (see II.1.4.-3.7. ↩︎ ↩︎

  5. For the measurement of the Uttaravedi in a Nirūḍha-paśubandha see Sūtra 13. ↩︎