०२

01 अत्यन्यानगामिति …{Loading}…

अत्यन्यानगामिति १

02 अथैनमुपस्पृशति तन् त्वा …{Loading}…

अथैनमुपस्पृशति तं त्वा जुषे वैष्णवं देवयज्याया इति २

03 देवस्त्वा सविता मध्वानक्त्विति …{Loading}…

देवस्त्वा सविता मध्वानक्त्विति स्रुवेण सर्वतो मूलं पर्यणक्ति ३

04 ओषधे त्रायस्वैनमित्यूर्ध्वाग्रन् दर्भमन्तर्धाय …{Loading}…

ओषधे त्रायस्वैनमित्यूर्ध्वाग्रं दर्भमन्तर्धाय स्वधिते मैनं हिंसीरिति स्वधितिना प्रहरति ४

05 प्रथमपरापातिनं शकलमाहरति …{Loading}…

प्रथमपरापातिनं शकलमाहरति ५

06 गुल्फदघे वृश्चेज्जानुदघ्नेऽनक्षसङ्गं वा …{Loading}…

गुल्फदघे वृश्चेज्जानुदघ्नेऽनक्षसङ्गं वा ६

07 दिवमग्रेण मा लेखीरिति …{Loading}…

दिवमग्रेण मा लेखीरिति प्राञ्चं पातयत्युदञ्चं प्राञ्चमुदञ्चं वा ७

08 वनस्पते शतवल्शो विरोहेत्याव्रश्चने …{Loading}…

वनस्पते शतवल्शो विरोहेत्याव्रश्चने जुहोति ८

09 सहस्रवल्शा वि वयं …{Loading}…

सहस्रवल्शा वि वयं रुहेमेत्यात्मानं प्रत्यभिमृश्य यं त्वायं स्वधितिरित्यन्वग्रमद्गांश्छिनत्ति ९

10 अच्छिन्नो रायः सुवीर …{Loading}…

अच्छिन्नो रायः सुवीर इत्यग्रं परिवासयति १०

11 पञ्चारत्निमिति काम्याः …{Loading}…

पञ्चारत्निमिति काम्याः ११

12 एकारत्निप्रभृत्या त्रयस्त्रिंशदरत्नेरव्यवायेनैके समामनन्ति …{Loading}…

एकारत्निप्रभृत्या त्रयस्त्रिंशदरत्नेरव्यवायेनैके समामनन्ति १२

13 यावान्यजमान ऊर्ध्वबाहुस्तावान् …{Loading}…

यावान्यजमान ऊर्ध्वबाहुस्तावान् १३

14 यावान्वा रथे तिष्ठन् …{Loading}…

यावान्वा रथे तिष्ठन् १४

15 ऊर्ध्वबाहुर्वा …{Loading}…

ऊर्ध्वबाहुर्वा १५

16 पुरुषमात्री त्वेतस्यावमा मात्रा …{Loading}…

पुरुषमात्री त्वेतस्यावमा मात्रा । अथ ततो वर्षीयान् । वर्षीयानेव कार्य इत्येके १६

17 त्र्यरत्निश्चतुररत्निर्वा पालाशो निरूढपशुबन्धस्यातोऽन्यः …{Loading}…

त्र्यरत्निश्चतुररत्निर्वा पालाशो निरूढपशुबन्धस्यातोऽन्यः सौम्यस्याध्वरस्येति वाजसनेयकम् १७

इति द्वितीया कण्डिका


  1. TS I.3.5.a-b. This Sūtra is a part of the sentence in VII.1.19. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.3.5.f. These activities are to be done by the Adhvaryu. The actual act of felling the tree is to be done by the carpenter. ↩︎ ↩︎ ↩︎ ↩︎