०१

01 सर्वांल्लोकान्पशुबन्धयाज्यभिजयति …{Loading}…

सर्वांल्लोकान्पशुबन्धयाज्यभिजयति १

02 तेन यक्ष्यमाणोऽमावास्यायाम् पौर्णमास्यां …{Loading}…

तेन यक्ष्यमाणोऽमावास्यायां पौर्णमास्यां वा षड्ढोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति सूर्यं ते चक्षुरिति २

03 आग्नावैष्णवमेकादशकपालन् निर्वपति …{Loading}…

आग्नावैष्णवमेकादशकपालं निर्वपति ३

04 अग्न्यन्वाधानस्य प्रत्याम्नायो भवति …{Loading}…

अग्न्यन्वाधानस्य प्रत्याम्नायो भवति ४

05 सिद्धमिष्टिः सन्तिष्ठते …{Loading}…

सिद्धमिष्टिः सन्तिष्ठते ५

06 धारयत्याहवनीयम् …{Loading}…

धारयत्याहवनीयम् ६

07 उरु विष्णो विक्रमस्वेति …{Loading}…

उरु विष्णो विक्रमस्वेति स्रुवेणाहवनीये यूपाहुतिं जुहोति ७

08 स्रुचा वा चतुर्गृहीतेन …{Loading}…

स्रुचा वा चतुर्गृहीतेन ८

09 न दीक्षितस्य जुहुयात् …{Loading}…

न दीक्षितस्य जुहुयात् ९

10 वैष्णवीमृचमनूच्याच्छेत्यः …{Loading}…

वैष्णवीमृचमनूच्याच्छेत्यः १०

11 जुहुयाद्वा …{Loading}…

जुहुयाद्वा ११

12 यूपसकाशे वाग्निम् मथित्वा …{Loading}…

यूपसकाशे वाग्निं मथित्वा तस्मिञ्जुहुयात् १२

13 स्रुवमाज्यशेषञ् चाध्वर्युरादत्ते तक्षा …{Loading}…

स्रुवमाज्यशेषं चाध्वर्युरादत्ते । तक्षा शस्त्रम् १३

14 यत्र यूपस्तद्यन्ति …{Loading}…

यत्र यूपस्तद्यन्ति १४

15 यूप्या वृक्षाः पलाशखदिरबिल्वरौहीतकाः …{Loading}…

यूप्या वृक्षाः पलाशखदिरबिल्वरौहीतकाः १५

16 पालाशन् तेजस्कामो यज्ञकामो …{Loading}…

पालाशं तेजस्कामो यज्ञकामो वा । खादिरं स्वर्गकामो वीर्यकामो वा । बैल्वमन्नाद्यकामो ब्रह्मवर्चसकामो वा । रौहीतकं प्रजाकामश्चक्षुष्कामो वा १६

17 समे जातमशाखाजम् बहुपर्णशाखमप्रतिशुष्काग्रमसुषिरमव्यावृत्तमघूर्णमृजुमूर्ध्वमूर्ध्वशकलमग्र …{Loading}…

समे जातमशाखाजं बहुपर्णशाखमप्रतिशुष्काग्रमसुषिरमव्यावृत्तमघूर्णमृजुमूर्ध्वमूर्ध्वशकलमग्र ईषदुपावनतं प्रागुदक् प्रत्यग्वौपनतम् १७

18 यङ् कामयेताप्रतिष्ठितः स्यादित्युक्तम् …{Loading}…

यं कामयेताप्रतिष्ठितः स्यादित्युक्तम् १८

19 अतिक्रम्य यूप्यान्यञ् जोषयते …{Loading}…

अतिक्रम्य यूप्यान्यं जोषयते तमभिमन्त्रयते १९

इति प्रथमा कण्डिका


  1. This animal-sacrifice is called Nirūḍhapaśubandha (an animal sacrifice which has been “taken out” from the Soma-sacrifice). Animal-sacrifice is basically a part of a Soma-sacrifice. But here it is described as an independent rite. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For this Sūtra cf. TB II.2.2.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS VI.3.3.4. ↩︎

  4. Cf. MS III.9.2. ↩︎

  5. Cf. MS III.9.2. ↩︎

  6. Cf. KS XXVI.3. ↩︎

  7. Cf. TS VI.3.3.5. ↩︎